CBSE conducted the CTET (Central Teacher Eligibility Test) Exam Paper held on 08th December 2019 Morning Shift. Here The CTET Paper – I Part – V Language – II Sanskrit Question Paper with Answer Key. CTET December 2019 Answer Key.
CTET (Central Teachers Eligibility Test)
Paper – I Primary Level (Class 1 to Class 5)
परीक्षा (Exam) – CTET Paper I Primary Level (Class I to V)
भाग (Part) – Part – V – संस्कृत (Language II – Sanskrit)
परीक्षा आयोजक (Organized) – CBSE
कुल प्रश्न (Number of Question) – 30
Paper Set – B
परीक्षा तिथि (Exam Date) – 08th December 2019
CTET Exam December 2019 Paper – 1 (Primary Level)
Part – V संस्कृत-भाषा-परिशिष्टम् (Language II – Sanskrit)
निर्देश : अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां (121 – 128) विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चित्वा लिखत –
वृद्धः पिता स्वपुत्रान् कृषिकर्मणः सञ्चालनाय भूयोभूयः प्रेरयति । किन्तु सर्वेऽपि अलसाः पुत्राः न शृण्वन्ति । एकदा स वार्धक्यजनितेन रोगेण ग्रस्तः शय्यासीनो जातः । सः कलहायमानेषु पुत्रेषु सङ्घबद्धतायाः महत्त्वं बोधनाय उपायमचिन्तयत् । सर्वानपि पुत्रान् आहूय स एकस्मै सुबद्धं दण्डचतुष्टयं दत्वा अवदत् – त्वमेनं भञ्जय । स कथमपि भक्तुं नाशक्नोत् । तदा अपरः पुत्रः तथैव आदिष्टः । सोऽपि तद्दण्डचतुष्टयं भक्तुं समर्थो न जातः । इयमेव दशा अपरद्वयोः पुत्रयोः अपि अभवत् । तदा वृद्धः पिता सुबद्धं दण्डचतुष्टयं निर्बध्य एकैकं दण्डं पुत्रेभ्यः दत्तवान् । तं दण्डं चोटयितुं स सर्वानपि आदिष्टवान् । सर्वे पुत्राः स्वस्वहस्तस्थितं दण्डं भङक्तुं समर्थाः अभवन् । तदा पिता कथितवान् यदि यूयं पृथक् पृथक् तिष्ठथ तदा कश्चित् शत्रुः युष्मान् एकैकान् विनाशयिष्यति । यदि यूयं सर्वे मिलित्वा सुबद्धाः तिष्ठथ तदा कोऽपि बाह्यजनः युष्मान् विनाशयितुं समर्थः न भविष्यति । तस्मात् दिवसात् सर्वेऽपि चत्वारः पुत्राः स्वस्वविचारान् त्यक्त्वा परस्परं मिलित्वा गृहेऽवसन् । पितरं च सेवया स्वस्थम् अकुर्वन् ।
121. अधोलिखितेषु पदेषु क्त्वा प्रत्ययान्तपदं चिनुत :
(1) द्रष्टम्
(2) दत्वा
(3) अनुशासनम्
(4) आदाय
Show Answer/Hide
122. पुत्रेभ्यः इति पदे अनुच्छेदानुसारेण का विभक्तिः ?
(1) द्वितीया
(2) तृतीया
(3) चतुर्थी
(4) प्रथमा
Show Answer/Hide
123. सुबद्धं दण्डचतुष्टयं कथं कृत्वा एकैकं दण्डं पिता पुत्रेभ्यः अयच्छत् ?
(1) त्वगपवार्य
(2) जलेन अभिसिञ्च्य
(3) नीराजनं कृत्वा
(4) निर्बन्ध्य
Show Answer/Hide
124. यूयम् इति पदम् कस्मिन् पुरुषे अस्ति ?
(1) मध्यम पुरुषे
(2) उत्तमपुरुषे
(3) वृद्धपुरुषे
(4) प्रथम पुरुषे
Show Answer/Hide
125. ‘गृहीत्वा’ इति पदस्य विपरीतार्थकपदम् अनुच्छेदेऽस्मिन् प्रयुक्तः । तच्चित्वा लिखत
(1) दृष्ट्वा
(2) संहृत्य
(3) आदाय
(4) त्यक्त्वा
Show Answer/Hide
126. स्वपुत्रान् भूयोभूयः कः प्रेरयति ?
(1) वृद्धः पिता
(2) भ्राता
(3) मित्रम्
(4) माता
Show Answer/Hide
127. ‘आवाहनं कृत्वा’ इत्यर्थे कः शब्दः अनुच्छेदेऽस्मिन् प्रयुक्तः?
(1) आहूय
(2) आज्ञापयत्
(3) अधावत्
(4) आदिशत्
Show Answer/Hide
128. अधोलिखितेषु पदेषु तुमुन् प्रत्ययान्तपदं चिनुत :
(1) पीत्वा
(2) भक्तुम्
(3) लिखित्वा
(4) भुक्त्वा
Show Answer/Hide
अधोलिखितं गद्यांशं पठित्वा तदाधारित – प्रश्नानां (129 – 135) विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत –
एकदा दरिद्रेभ्यः दातुं कम्बलाः नृपेण चाणक्याय समर्पिताः । चाणक्यस्य उटजं नगराद् बहिः आसीत् । केचन चौराः कम्बलान् अपहर्तुं चिन्तितवन्तः । ते रात्रौ चाणक्यस्य उटजं प्राविशन् । तत्र अतीव शैत्यम् आसीत् । चाणक्यः कटे सुप्तः आसीत् । पार्श्वे कम्बलानां राशिः आसीत् । चौराणाम् आश्चर्यम् । चाणक्यः कम्बलं विना निद्रां करोति । चौराः चौरकर्म न अकुर्वन् । ते चाणक्यं प्रबोधितवन्तः । चौराः-चाणक्य महोदय ! पार्वे कम्बलानां राशिः । शीतकालोऽपि वर्तते । तथापि त्वं किमर्थं भूमौ शयनं करोषि ? चाणक्यः उक्तवान् – कम्बलाः दरिद्रेभ्यः दानाय नृपेण दत्ताः । श्वः प्रभाते वितरणं करिष्यामि । तेषां उपयोगाय नास्ति ममाधिकारः । अहं विरक्तः सदा तृप्तः । इति श्रुत्वा चौराणां लजा उत्पन्ना । अन्येषां वस्तुनाम् उपयोगेन अधर्मः भवति ।
129. ‘समीपे’ इति पदस्य – समानार्थकशब्दः अनुच्छेदेऽस्मिन् प्रयुक्तः । तच्चित्वा लिखत –
(1) अतिदूरे
(2) पार्श्वे
(3) अन्यस्मिन् ग्रामे
(4) दूरे
Show Answer/Hide
130. चाणक्यः कुत्र शयनं करोति स्म ?
(1) वृक्षे
(2) जले
(3) भूमौ
(4) पर्यड्के
Show Answer/Hide
131. ‘दरिद्रेभ्यः’ इत्यस्मिन् पदे का विभक्तिः अनुच्छेदमाघृत्य लिखत –
(1) द्वितीया
(2) सप्तमी
(3) चतुर्थी
(4) प्रथमा
Show Answer/Hide
132. ‘सायंकाले’ इति पदस्य विलोमशब्दः अनुच्छेदेऽस्मिन् प्रयुक्तः तच्चित्वा लिखत –
(1) अपराहणकाले
(2) प्रभाते
(3) रात्रिकाले
(4) मध्याह्नकाले
Show Answer/Hide
133. चाणक्याय कम्बलाः केन दत्ताः ?
(1) नृपेण
(2) भृत्येन
(3) चौरेण
(4) मनोहरेण
Show Answer/Hide
134. ‘प्रवेशमकुर्वन्’ इति पदस्य कृते किं पदम् अनुच्छेदेऽस्मिन् प्रयुक्तः ?
(1) प्राविशन्
(2) अशिक्षयन्
(3) अपश्यन्
(4) आदिशन्
Show Answer/Hide
135. ‘सुप्तः’ इति पदे कः प्रत्ययः प्रयुक्तः ?
(1) तुमुन्
(2) क्त
(3) घञ्
(4) क्त्वा
Show Answer/Hide