106. भाषाधिगमार्थ कण्ठस्थीकरणम् अङ्गरूपेण भाषाशिक्षणस्य कः उपागमः स्वीकरोति ?
(1) व्याकरणानुवादपद्धतिः (Grammar and Translation Method)
(2) सम्प्रेषणात्मकोपागमः (Communicative Approach)
(3) सम्पूर्णशारीरिकप्रतिक्रिया (Total Physical Response)
(4) संरचनात्मकोपागमः (Structural Approach)
Click here to Show Answer/Hide
107. काव्या एका भाषाशिक्षिका अस्ति । सा विषयानुगुणं शब्दानाम् आहरणं कर्तुं तेषां सहगामिशब्दानां च आहरणं कर्तुं छात्रान् निर्दिशति । एषा योजना / पद्धतिः ज्ञायते ____
(1) शब्दजालः इति (Word Web)
(2) शब्दक्रीडा इति (Word Play)
(3) शब्दनिर्माणः इति (Word Formation)
(4) विन्यासः इति (Collocation)
Click here to Show Answer/Hide
108. छात्राणां भाषादक्षतायाः परीक्षणं कर्तुं शिक्षिका एकं प्रश्नपत्रं प्रस्तौति । तस्मिन् सा प्रत्येकं पञ्चम पदं प्रत्याहृत्य एकं परिच्छेदं ददाति छात्रान् पञ्चमं तत् रिक्तस्थानं पूरयितुं छात्रान् निर्दिशति । एवम्प्रकारकः परीक्षाविधिः ज्ञायते ______
(1) शब्दज्ञानपरीक्षा इति. (Vocabulary Testing)
(2) शून्यस्थानपूरणम् इति (Fill in the blanks)
(3) क्लोज़परीक्षा इति (Cloze test)
(4) अवबोधपूर्वकं पठनम् इति (Reading Comprehension)
Click here to Show Answer/Hide
109. सम्भाषणसमये उचितेन उच्चारणेन सह समुचितशब्दानां समुचितक्रमेण प्रयोगः।
(1) सम्भाषणप्रक्रिया (Mechanics of Speaking)
(2) भाषाव्यापारः (Language Function)
(3) प्रयोगाधारितभाषा (Language in Use)
(4) सङ्केतभाषा (Body Language)
Click here to Show Answer/Hide
110. कथाकथनम् एकं शिक्षणशास्त्रीयम् उपकरणम् अस्ति । तस्य उपयोगः क्रियते ______
(1) छात्राणां सम्भाषणकौशलस्य विकासार्थम् ।
(2) भाषासाहित्यकौशलस्य विकासार्थम् ।
(3) कक्षायाम् अनुशासनं पालयितुम् ।
(4) श्रवणकतिविधौ छात्रान् नियोजयितुम् ।
Click here to Show Answer/Hide
111. ससन्दर्भ व्याकरणम् (Language in context) नाम –
(1) पूर्वम् रूपाणाम् ज्ञानम् अनन्तरं प्रयोगं प्रति प्रवृत्तिः
(2) स्वाभाविकभाषायाः उदाहरणेषु रूपाणां परिचयः तथा च सन्दर्भे तेषाम् अध्ययनम् ।
(3) व्यवस्थितसंरचनामाध्यमेन रूपाणाम् अधिगमनम् येन विद्यार्थी क्रमशः विकास प्राप्नोति ।
(4) पुनः पुनः अभ्यासबलेन व्याकरणस्य अधिगमनम् ।
Click here to Show Answer/Hide
112. अधोलिखितेषु कस्य कौशलविकासाथ लेखनम् इत्यस्मिन् ग्रहणं न भवेत् ?
(1) पठनसमये टिप्पणीलेखनम् (Note making)
(2) सारांशलेखनम् (Synopsis writing)
(3) कस्यचित् कार्यक्रमस्य कृते योजनापत्रलेखनम् (Writing Agenda)
(4) व्याख्यानसमये टिप्पणीसङ्कलनम् (Note taking)
Click here to Show Answer/Hide
113. पाठ्यपुस्तकनिर्मातारः वृत्तपत्र-पत्रिकादि मूललेखेभ्यः पाठान्, कविताः वर्णनानि समाहत्य पाठ्यपुस्तकेषु नियोजयन्ति किमर्थम् ?
(1) पाठ्यपुस्तकनिर्मातृभ्यः तानि रोचन्ते ।
(2) अभ्यासप्रश्नानां निर्माणे तेषाम् उपयोगिता भवति ।
(3) तानि पठनार्थम् उपयोगीनि भवन्ति ।
(4) तेषु विश्वसनीया (authentic) स्वाभाविकी च भाषा विद्यते ।
Click here to Show Answer/Hide
114. शिक्षकः एकं पाठं स्वगत्या पठति । विद्यार्थिनः समूहेषु विभज्य मुख्यबिन्दून् आदाय पाठस्य पुनर्निर्माणं कुर्वन्ति । एवंविधं कार्यम् अस्ति ______
(1) व्याकरणश्रुतलेखः (Grammar Dictation)
(2) कार्यस्य पुनर्लेखनम् (Rewriting Task)
(3) पारस्परिकश्रुतलेखः (Mutual Dictation)
(4) श्रुतलेखः (Dictation)
Click here to Show Answer/Hide
115. प्रथम भाषा विकासः साधारणतया ज्ञायते ______
(1) अधिग्रहणम् इति (Acquisition)
(2) परिवर्धनम् इति (Development)
(3) संज्ञानम् इति (Cognition)
(4) अधिगमः इति (Learning)
Click here to Show Answer/Hide
116. कस्याश्चित् शिक्षिकायाः कक्षायां छात्राणां मातृभाषाः विभिन्नाः सन्ति । सा प्रत्येकं छात्रं स्वस्वभाषया परस्परम् अभिवादयितुं निर्दिशति । प्रतिदिनं छात्राः विभिन्नभाषाणां शब्दैः सह परिचयार्थ प्रयत्नशीलाः भवन्ति । एवं शिक्षिका साधनरूपेण अधोलिखितेषु कतमम् आश्रयति ।
(1) बहुभाषिकता (Poliglotism)
(2) योजनारूपेण विभिन्नता (Diversity as a strategy)
(3) भाषैक्यवादः (Monolingualism)
(4) संसाधनरूपेण बहुभाषावादः (Multilingualism as a resource)
Click here to Show Answer/Hide
117. विद्यार्थिभ्यः एकस्याः भाषायाः परिचयार्थ कतमः मार्गः न समुचितः ?
(1) शब्दैः लघुवाक्यैः च ।
(2) वर्णमालायाः अक्षराणां शिक्षणेन ।
(3) मौखिक-श्राविकादानप्रदानद्वारा।
(4) अन्त्यानुप्रासकविताभिः गीतैः च ।
Click here to Show Answer/Hide
118. मातृभाषाधारित – बहुभाषावादः नाम किम् ?
(1) मातृभाषामाध्यमेन अधिगमः ।
(2) प्रथमं मातृभाषायाः अधिगमः तदनन्तरम् अधिकानां भाषाणां योगः
(3) अनेकभाषाणां विदेशिभाषाणां च मातृभाषारूपेण अध्ययनम् ।
(4) केवलं मातृभाषायाः अधिगमः
Click here to Show Answer/Hide
119. विद्यालयिभाषा शिक्षानीतिः (Language-in school education policy) ज्ञायते ______
(1) शिक्षायां भाषा इति ।
(2) मातृभाषा धारित-बहुभाषावादः इति ।
(3) त्रिभाषासूत्रम् इति ।
(4) बहुभाषिशिक्षा इति ।
Click here to Show Answer/Hide
120. समुच्चयभाषा-उपागमः (Whole Language approach) अस्ति ______
(1) विद्यार्थिनां भाषाधिगमः भवति भाषिकखण्डेभ्यः (Language chunks) अनन्तरं ते वर्णानाम् अक्षराणां च बोधं कुर्वन्ति इति अवधारणा।
(2) भाषाधिगमस्य आरम्भः भवति लघुतमेन एककेन वर्णमालायाः अक्षरेण इति अवधारणा।
(3) सर्वाः भाषाः समानमार्गेण एव अधिगम्यन्ते इति अवधारणा।
(4) विद्यार्थिनां भाषाधिगमः भवति अक्षरध्वनिज्ञानानन्तरं शब्दानां, शब्दसमूहानां, वाक्यानां च ज्ञानेन इति अवधारणा।
Click here to Show Answer/Hide
Related Also ….
- CTET Dec 2019 Paper – I – Part – I – बाल विकास और शिक्षा-शास्त्र (CDP)
- CTET Dec 2019 Paper – I – Part – II – गणित (Mathematics)
- CTET Dec 2019 Paper – I – Part – III – पर्यावरण अध्ययन (EVS)
- CTET Dec 2019 Paper – I – Part – IV – Language – I हिंदी (Hindi)
- CTET Dec 2019 Paper – I – Part – IV – Language – I English
- CTET Dec 2019 Paper – I – Part – V – Language – II English
- CTET Dec 2019 Paper – I – Part – V – Language – II संस्कृत (Sanskrit)
Bahut achcha CTET ka paper aise hi dalte raho dhanyvad