निर्देश : अधोलिखित गद्याधारितानां प्रश्नानां (प्रश्न संख्या 75 – 78 पर्यन्तान् ) समुचितानिउत्तराणि चिनुत –
आसीदशेषनरपतिशिरः समभ्यर्चित-शासनः, पाकशासन इवअपरः चतुरूदधिमाला मेखलायाः भुवो भर्ता, चक्रवर्ति लक्षणोपेतः, चक्रधर इव करकमलोपलक्ष्यमाण-शंखचक्र लाञ्छनः, हर इव जितमन्मथः, गुह इवाप्रतिहतशक्तिः, कमलयोनिरिव विमानीकृत राजहंसमण्डलः, जलधिरिव लक्ष्मीप्रसूतः, गंगा प्रवाह इव भगीरथ पथ प्रवृत्तः, रविरिव प्रतिदिवसोपजायमानोदयः, मेरुरिव सकलोपजीव्यमानपादच्छायः, दिग्गज इवानवरतप्रवृत्तदानार्दीकृतकरः, कर्तामहाश्चर्याणाम् आहर्ता क्रतूनाम्, आदर्शः सर्वशास्त्राणाम्, उत्पत्तिः कलानाम्, कुलभवनं गुणानां, आगमः काव्यामृतरसाणाम्, उदयशैलः मित्रमण्डलस्य, प्रवर्त्तयिता गोष्ठीबन्धानाम् , आश्रयो रसिकानाम्, प्रत्यादेशः धनुष्मताम् , धौरेयः साहसिकानाम्, अग्रणीर्विदग्धानाम् , वैनतेय इव विनतानन्दजननः, वैन्य इव चापकोटि समुत्सारित सकलाराति कुलाचलो शूद्रको नाम राजा।
75. अस्मिन् गद्यांशे वर्णनमस्ति
(A) राजा भगीरथस्य
(B) चक्रधर-विष्णोः
(C) सुमेरू पर्वतस्य
(D) राजा शूद्रकस्य
Click here to Show Answer/Hide
76. ‘पाकशासन इवापरः’ इत्यत्र अलंकारोऽस्ति
(A) उपमालंकारः
(B) रूपक अलंकारः
(C) अनुप्रासालंकार
(D) उत्प्रेक्षालंकार
Click here to Show Answer/Hide
77. ‘प्रत्यादेशः’ इत्यस्मिन् पदे सन्धि – नाम अस्ति
(A) यण् सन्धिः
(B) अयादि सन्धिः
(C) गुण सन्धिः
(D) पररूप सन्धिः
Click here to Show Answer/Hide
78. ‘वैन्य’ इति कस्य पर्यायवाची अस्ति?
(A) राज्ञः
(B) पृथोः
(C) शूद्रकस्य
(D) धनुर्धरस्य
Click here to Show Answer/Hide
79. ‘अहं पुस्तकं पठामि’ इत्यस्य कर्मवाच्य वाक्यमस्ति
(A) मया पुस्तकं पठेयम्
(B) मया पुस्तकं पठितम्
(C) मया पुस्तकं पठ्यते
(D) मया पुस्तकं पठ्यन्ते
Click here to Show Answer/Hide
80. एकदा, इदानीम् , अतीव, कदाचित् इत्यादीनि पदानि कथ्यन्ते –
(A) संज्ञा पदानि
(B) सर्वनाम पदानि
(C) क्रिया पदानि
(D) अव्यय पदानि
Click here to Show Answer/Hide
81. स्वर वर्णानां उच्चारण प्रयत्ने ‘आ’ स्वरोऽस्ति
(A) संवृतम्
(B) विवृतम्
(C) अर्धसंवृतम्
(D) अर्ध विवृतम्
Click here to Show Answer/Hide
82. निम्नलिखित वर्णानां मध्ये अन्तस्थ वर्णः अस्ति
(A) श
(B) य
(C) झ
(D) म
Click here to Show Answer/Hide
83. ‘एतज्जलम्’ इत्यस्मिन् पदे सन्धि विधायकं सूत्रम् अस्ति
(A) खरि च
(B) झलां जश् झशि
(C) स्तोः श्चुना श्चुः
(D) ष्टुना ष्टुः
Click here to Show Answer/Hide
84. ‘राजन्’ शब्दस्य षष्ठी एकवचने रूपं भवति
(A) राजस्य
(B) राज्ञस्य
(C) राजायाः
(D) राज्ञः
Click here to Show Answer/Hide
85. ‘उत्थाय’ इत्यस्मिन् पदे प्रकृति प्रत्यय विभागम् अस्ति
(A) उत् + था + ल्यप्
(B) उत् + स्था + यत्
(C) उत् + स्था + ल्यप
(D) कोऽपि न
Click here to Show Answer/Hide
86. ‘संयोग’ संज्ञा भवति –
(A) अच् व्यवधान सहित हल वर्णानाम्
(B) अच् व्यवधान रहित हल् वर्णानाम्
(C) हल् व्यवधान सहित अच वर्णानाम्
(D) हल् व्यवधान रहित अच् वर्णानाम्
Click here to Show Answer/Hide
87. कालिदास रचिते ‘मेघदूतम्’ इति काव्यरचनायां छन्दः अस्ति
(A) मन्दाक्रान्ता
(B) शार्दूलविक्रीडितम्
(C) पृथ्वी
(D) गीतिका
Click here to Show Answer/Hide
88. समीचीनां तालिकां चिनुत –
(अ) भारवि (1) नैषध चरितम्
(ब) माघः (2) किरातार्जुनीयम्
(स) श्री हर्षः (3) वृहत्कथा मञ्जरी
(द) क्षेमेन्द्रः (4) शिशुपालवधः
कूटः
(अ) (ब) (स) (द)
(A) 2 3 1 4
(B) 2 4 1 3
(C) 3 2 1 4
(D) 4 2 3 1
Click here to Show Answer/Hide
89. संस्कृत साहित्ये चम्पूकाव्य परम्परायाः प्रथम-उपलब्ध चम्पूकाव्यमस्ति
(A) भोजकृत् ‘रामायण चम्पू’
(B) अनन्त कविकृत् ‘भारत चम्पू’
(C) सोडल कृत उदयसुन्दरी कथा
(D) त्रिविक्रम भट्ट कृत् ‘नलचम्पू’
Click here to Show Answer/Hide
90. बाणभट्ट कृत् कादम्बरी गद्य काव्यस्य नायकः अस्ति
(A) चन्द्रापीडः
(B) शूद्रकः
(C) तारापीडः
(D) वैशम्पायनः
Click here to Show Answer/Hide
Read Also : |
---|