REET Level 1 Exam Paper 23 July 2022 (Shift-I) (Section – II, Language – I – Sanskrit) (Official Answer Key) | TheExamPillar
REET 2022 Answer Key

REET Level 1 Exam Paper 23 July 2022 (Shift-I) (Section – II, Language – I – Sanskrit) (Official Answer Key)

निम्नलिखितम् अपठितं गद्यांशम् आधारीकृत्य प्रश्ना : (46-50) समाधेयाः –

अयं देशः बहुषु प्रान्तेषु विभक्तः । विविधधर्मावलम्बिनः नानाभाषाभाषिणः जनाः अत्र निवसन्ति । शौर्ययुक्ताः भारतीयाः स्वदेशं प्रति समर्पिताः सन्ति । अस्माकं संविधानं संप्रदायनिरपेक्षं वर्तते । विश्वस्य विभिन्ना जातयः अत्र आगत्य भारतीयाः सञ्जाताः । भारतस्य गौरवं सर्वप्राचीनम् सभ्यतायाः सूर्योदयः भारते अभवत् । अधुना भारतस्य प्रजातन्त्रात्मकं, तेजोमयं स्वरूपं विश्वस्य राजनीतिके मञ्चे सुशोभते ।

46. ‘सूर्योदयः’ इत्यत्र कः सन्धिः ?
(A) यण् – सन्धिः
(B) गुण-सन्धिः
(C) अयादि-सन्धिः
(D) दीर्घ-सन्धिः

Show Answer/Hide

Answer – (B)

47. “सञ्जाताः” इत्यत्र उपसर्गः कः ?
(A) सम्
(B) सह
(C) सन्
(D) सञ्

Show Answer/Hide

Answer – (A)

48. “आगत्य” इत्यत्र प्रत्ययः विद्यते –
(A) यत्
(B) ण्यत्
(C) ल्यप्
(D) क्त्वा

Show Answer/Hide

Answer – (C)

49. “अस्माकम्” इत्यत्र का विभक्तिः ?
(A) तृतीया
(B) चतुर्थी
(C) सप्तमी
(D) षष्ठी

Show Answer/Hide

Answer – (D)

50. ‘भारतस्य गौरवं सर्वप्राचीनं वर्तते ।’ अस्मिन् वाक्ये विशेषणपदं विद्यते –
(A) भारतस्य
(B) सर्वप्राचीनम्
(C) गौरवम्
(D) वर्तते

Show Answer/Hide

Answer – (B)

निम्नलिखितम् अपठितं गद्यांशम् आधारीकृत्य अधोलिखिताः प्रश्नाः (51-55) समाधेयाः

जयपुरनगरं राजस्थानप्रान्तस्य राजधानी अस्ति । अस्य नगरस्य निर्माणं महाराजः जयसिंहः अकरोत् । अस्य नगरस्यैश्वर्यं निर्माणकौशलं सौन्दर्यञ्च विलोक्य वैदेशिकाः अपि चकिताः भवन्ति । इदं नगरं भारतस्य पेरिस-नाम्ना प्रसिद्धम् । यत्र पूर्वस्यां दिशि गलतातीर्थं तत्रैव उत्तरस्यां दिशि “आमेर” नाम्नी प्राचीना राजधानी स्थिताऽस्ति । सदैव अत्र पर्यटकाः समागच्छन्ति ।

51. “महाराजः” इत्यत्र कः समासः ?
(A) द्वन्द्वः
(B) अव्ययीभावः
(C) कर्मधारयः
(D) द्विगुः

Show Answer/Hide

Answer – (C)

52. “सदैव” इत्यत्र सन्धिविच्छेदः विद्यते –
(A) सदा + एव
(B) सद् + एव
(C) सदे + एव
(D) सद् + ऐव

Show Answer/Hide

Answer – (A)

53. “नूतना” इत्यस्य विलोमपदं वर्तते –
(A) अर्वाचीना
(B) अद्यतना
(C) प्राचीना
(D) सनातना

Show Answer/Hide

Answer – (C)

54. “वैदेशिकाः अपि चकिताः भवन्ति” । इत्यस्मिन् वाक्ये विशेष्यपदम् अस्ति –
(A) अपि
(B) भवन्ति
(C) चकिताः
(D) वैदेशिकाः

Show Answer/Hide

Answer – (D)

55. अस्य नगरस्य निर्माण महाराजः जयसिंहः अकरोत् । अत्र रेखाङ्कित पदे लकारः अस्ति –
(A) लृट् – लकारः
(B) लङ्-लकारः
(C) लोट् लकारः
(D) लट्-लकारः

Show Answer/Hide

Answer – (B)

56. “माता भोजनं पचति” । वाक्यमिदं लृट् लकारे परिवर्तयत –
(A) माता भोजनं पक्ष्यति ।
(B) माता भोजनम् अपचत् ।
(C) माता भोजनं पचेत् ।
(D) माता भोजनं पचतु।

Show Answer/Hide

Answer – (A)

57. “44” एतां संख्या संस्कृतेन लिखत –
(A) चतुचत्वारिंशत्
(B) चतुश्चत्वारिंशत्
(C) चत्वारिचत्वारिंशत्
(D) चतुर्चत्वारिंशत्

Show Answer/Hide

Answer – (B)

58. माहेश्वरसूत्रेषु “एच्” प्रत्याहारस्य उचितक्रमः वर्तते –
(A) ए, ओ, ऐ, औ
(B) ए, ऐ, ओ, औ
(C) ए, ओ, औ, ऐ
(D) ए, औ, ऐ, ओ

Show Answer/Hide

Answer – (A)

59. संस्कृतेन अनुवादं कुरुत –
“पुत्र पिता के साथ मन्दिर में गया”
(A) पुत्रः पित्रेण सह मन्दिरम् अगच्छत् ।
(B) पुत्रः पित्रा सह मन्दिरम् अगच्छत् ।
(C) पुत्रः पित्रा साकं मन्दिरे अगच्छः।
(D) पुत्र पित्रा सह मन्दिरं गमिष्यति ।

Show Answer/Hide

Answer – (B)

60. संस्कृतेन अनुवादं कुरुत –
“राजा राज्य की रक्षा करेगा” ।
(A) नृपः राज्यं रक्षिष्यति ।
(B) नृपेण राज्यस्य रक्षां करिष्यसि ।
(C) नृपः राज्याय रक्षिष्यति ।
(D) राजा राज्यं रक्षिष्यामि ।

Show Answer/Hide

Answer – (A)

 

Read Also :

Read Related Posts

Leave a Reply

Your email address will not be published.

error: Content is protected !!