REET Level 2 Exam Paper 24 July 2022 (Shift-III) (Section – III, Language-II, Sanskrit) (Official Answer Key) | TheExamPillar
REET 2022 Answer Key

REET Level 2 Exam Paper 24 July 2022 (Shift-III) (Section – III, Language-II, Sanskrit) (Official Answer Key)

76. कस्मिन्नपि कक्षाकक्षे कस्य प्रथमाऽनिवार्यता भवेत् ?
(A) वस्त्रस्य
(B) आसन्दस्य
(C) श्यामपट्टस्य
(D) दण्डस्य

Show Answer/Hide

Answer – (C)

77. छात्राणां ज्ञानस्यस्तरः, बुद्धिकौशलम्, कार्यशक्तिश्च कथं निश्चीयते ?
(A) भ्रमणेन
(B) परीक्षया
(C) वादविवादेन
(D) पाठ्यपुस्तकेन

Show Answer/Hide

Answer – (B)

78. रुचिः, नैरन्तर्यम्, वैराग्यम् इत्येते त्रयः विन्दवः कस्मिन् सिद्धान्ते प्रयुज्यन्ते ?
(A) मौखिककार्यस्य सिद्धान्ते
(B) वैयक्तिकभिन्नतायाः सिद्धान्ते
(C) अनुपातसिद्धान्ते
(D) क्रियाशीलतायाः अभ्यासस्य च सिद्धान्ते

Show Answer/Hide

Answer – (D)

79. अष्टादशशताब्द्याः अन्तं यावत् मौखिकपरीक्षाः एव कस्य प्राचीनतमसाधनत्वेन आसन् ?
(A) मूल्याङ्कनस्य
(B) पठनस्य
(C) भ्रमणस्य
(D) भाषणस्य

Show Answer/Hide

Answer – (A)

80. शलाकापरीक्षा छात्रस्य मूल्याङ्कनं करोति –
(A) क्रियाकलापस्य
(B) तीव्रबुद्धेः
(C) परिवारस्य
(D) स्थूलशरीरस्य

Show Answer/Hide

Answer – (B)

निम्नलिखितम् अपठित गद्यांशम् आधारीकृत्य प्रश्नाः (81-85) समाधेयाः –

अस्मिन् विशालदेशे विदेशेषु च स्वतन्त्रतादिवसः महता उल्लासेन समायोज्यते । मुख्यसमारोहः दिल्लीनगरस्य रक्तदुर्गप्राङ्गणे भवति । अस्मिन् उत्सवे देशविदेशस्य गणमान्याः राजनयिकाः सम्मिलिताः भवन्ति । प्रधानमन्त्री ध्वजारोहणं करोति । जनेभ्यः उद्बोधनञ्च् प्रयच्छति । सैनिकाः छात्रछात्राश्च पंक्तिबद्धाः पदसञ्चलनं कुर्वन्ति । राष्ट्रध्वज प्रणमन्ति । राष्टगीतं गायन्ति ।

81. ‘महता’ इत्यत्र का विभक्तिः ?
(A) चतुर्थी
(B) तृतीया
(C) प्रथमा
(D) पंचमी

Show Answer/Hide

Answer – (B)

82. “ध्वजारोहणम्” इत्यत्र कः सन्धिः ?
(A) यण-सन्धिः
(B) दीर्घसन्धिः
(C) अयादिसन्धिः
(D) गुणसन्धिः

Show Answer/Hide

Answer – (B)

83. “राष्ट्रगीतम्” इत्यत्र कः समासः ?
(A) कर्मधारयः
(B) अव्ययीभावः
(C) तत्पुरुषः
(D) द्वन्द्वः

Show Answer/Hide

Answer – (C)

84. “प्रणमन्ति” इत्यत्र कः लकार: ?
(A) लट्-लकारः
(B) लङ्-लकारः
(C) लृट् लकारः
(D) लोट् लकार:

Show Answer/Hide

Answer – (A)

85. गणमान्याः राजनयिकाः सम्मिलिताः भवन्ति ।
अस्मिन् वाक्ये विशेष्यपदम् अस्ति –
(A) गणमान्याः
(B) सम्मिलिताः
(C) भवन्ति
(D) राजनयिकाः

Show Answer/Hide

Answer – (D)

निम्नलिखितम् अपठितं श्लोकमाधारीकृत्य प्रश्नाः (86-90) समाधेयाः –

अत्रैव कोकिलविनिन्दितमनोज्ञकण्ठी,
श्री कुम्भकर्णनृपतेस्तनया रमापि ।
उत्सन्नतामुपगतां स्वपितुः प्रवृत्ताम्
सङ्गीतशास्त्रसरणिं पुनरुद्दधार ।।

86. “अत्रैव” इत्यत्र कः सन्धिः ?
(A) दीर्घसन्धिः
(B) वृद्धिसन्धिः
(C) यणसन्धिः
(D) गुणसन्धिः

Show Answer/Hide

Answer – (B)

87. “सङ्गीतशास्त्रसरणिम्” इत्यत्र समासः वर्तते –
(A) तत्पुरुषः
(B) बहुव्रीहिः
(C) अव्ययीभावः
(D) द्वन्द्वः

Show Answer/Hide

Answer – (A)

88. “उपगताम्” इत्यत्र कः प्रत्ययः ?
(A) क्तवतु
(B) यतृ
(C) क्त
(D) तृच्

Show Answer/Hide

Answer – (C)

89. “अत्रैव कोकिलविनिन्दितमनोज्ञकण्ठी” अस्मिन् श्लोकांशे कोऽलङ्कारः ?
(A) उपमालङ्कारः
(B) विभावनालंकारः
(C) श्लेषालङ्कारः
(D) व्यतिरेकालङ्कारः

Show Answer/Hide

Answer – (D)

90. उपर्युक्ते श्लोके किं छन्दः ?
(A) उपजातिः
(B) वसन्ततिलका
(C) मालिनी
(D) वंशस्थम्

Show Answer/Hide

Answer – (B)

REET Level 2 (Junior Level) Exam Paper 24 July 2022 (Shift – III)
REET Level 2 Exam – 24 July, 2022 (Section – I, C.D.P.) (Answer Key) Click Here
REET Level 2 Exam – 24 July, 2022 (Section – II, Language I – Hindi) (Answer Key) Click Here
REET Level 2 Exam – 24 July, 2022 (Section – II, Language I – English) (Answer Key) Click Here
REET Level 2 Exam – 24 July, 2022 (Section – II, Language I – Sanskrit) (Answer Key) Click Here
REET Level 2 Exam – 24 July, 2022 (Section – III, Language II – Hindi) (Answer Key) Click Here
REET Level 2 Exam – 24 July, 2022 (Section – III, Language II – English) (Answer Key) Click Here
REET Level 2 Exam – 24 July, 2022 (Section – III, Language II – Sanskrit) (Answer Key) Click Here
REET Level 2 Exam – 24 July, 2022 (Section – IV(a) – Mathematics & Science) (Answer Key) Click Here
REET Level 2 Exam – 24 July, 2022 (Section – IV(b) – Social Studies) (Answer Key) Click Here

 

Read Also :

Read Related Posts

 

Leave a Reply

Your email address will not be published.

error: Content is protected !!