REET Level 2 Exam Paper 24 July 2022 (Shift-IV) (Section – II, Language-I, Sanskrit) (Answer Key) | TheExamPillar
REET 2022 Answer Key

REET Level 2 Exam Paper 24 July 2022 (Shift-IV) (Section – II, Language-I, Sanskrit) (Answer Key)

46. अधीतपाठस्य स्मरणाय, ज्ञानोपार्जनाय, गृहकार्यकरणाय, च केषामावश्यकता भवति –
(A) पाठ्यपुस्तकानाम्
(B) क्रीडोपकरणानाम्
(C) वस्त्राभूषणानाम्
(D) विविधभोजनवस्तूनाम्

Show Answer/Hide

Answer – (A)

47. बालकस्य शिक्षारम्भः उपनयनसंस्कारात्परं केन प्राचीनतमेन विधिना गुरुणा प्रारभ्यते –
(A) व्याख्याविधिना
(B) पाठशालाविधिना
(C) प्रत्यक्षविधिना
(D) पाठ्य-पुस्तक विधिना

Show Answer/Hide

Answer – (B)

48. कस्याः परीक्षायाः प्रकाराः निम्न विन्दवः सन्ति रिक्तस्थानपूरणम्, सत्यासत्यनिर्णयः, बहुसाधनप्रश्नाश्च ।
(A) अभिरुचिपरीक्षायाः
(B) निदात्मकपरीक्षायाः
(C) वस्तुनिष्ठपरीक्षायाः
(D) आसक्तिपरीक्षायाः

Show Answer/Hide

Answer – (C)

49. संस्कृतभाषा कस्य परिवारस्य भाषा विद्यते –
(A) तिब्बतवर्मी-परिवारस्य
(B) द्राविड़-परिवारस्य
(C) पाश्चात्य परिवारस्य
(D) भारोपीय परिवारस्य

Show Answer/Hide

Answer – (D)

50. निम्नलिखितासु परीक्षासु मौखिकपरीक्षा नास्ति –
(A) शलाका परीक्षा
(B) संवाद परीक्षा
(C) साक्षात्कारः
(D) निबन्धात्मक परीक्षा

Show Answer/Hide

Answer – (D)

अधोलिखितं गद्यांशमाधारीकृत्य निम्नलिखिताः (51-55) प्रश्नाः समाधेयाः –

वैज्ञानिकाः अन्तरिक्षे प्रयोगशालाः स्थापयित्वा मंगलादि ग्रहाणां यात्रार्थं प्रयत्नशीलाः सन्ति । यद्यपि विज्ञानेन मानवजातेः महान् उपकारः संजातः तथापि वैज्ञानिकैः विश्वकल्याणाय प्रयत्नः कर्त्तव्यः । अणुशास्त्रैः त्रिभुवनं रक्षितव्यम् । इदं स्मरणीयं यत् मानवसंहारात् भेतव्यम् । विश्वस्य देशैः विश्वशान्तेः पाठः पठितव्यः । सर्वदा सत्यं वचः वक्तव्यम् तथा
सदाचरणं कर्त्तव्यम् ।

51. “मानवजातेः” इत्यत्र का विभक्तिः ?
(A) सप्तमी
(B) तृतीया
(C) षष्ठी
(D) चतुर्थी

Show Answer/Hide

Answer – (C)

52. “त्रिभुवनम्” इत्यत्र समासः अस्ति –
(A) द्विगुः
(B) द्वन्द्वः
(C) बहुव्रीहिः
(D) अव्ययीभावः

Show Answer/Hide

Answer – (A)

53. “संजातः” इत्यत्र कः प्रत्ययः ?
(A) शतृ
(B) क्त
(C) शानच
(D) क्तवतु

Show Answer/Hide

Answer – (B)

54. “यद्यपि” इत्यत्र कः सन्धिः
(A) यणसन्धिः
(B) अयादि सन्धिः
(C) गुणसन्धिः
(D) दीर्घ सन्धिः

Show Answer/Hide

Answer – (A)

55. “सर्वदा सत्यं वचः वक्तव्यम्” इत्यस्मिन् वाक्ये विशेष्य पदं विद्यते –
(A) वक्तव्यम्
(B) सत्यम्
(C) सर्वदा
(D) वचः

Show Answer/Hide

Answer – (D)

अधोलिखितं गद्यांशं पठित्वा निम्नलिखिताः (56-60) प्रश्नाः समाधेयाः –

महाराणाप्रतापस्य पुण्यभूमिं मेवाड़’ राज्यं को न जानाति ? इदं राज्यं शूराणां शौर्येण, यूनाम् आत्माहुत्या, सतीनाञ्च ‘जौहर’ परम्परया विश्वस्मिन् जगति महतीं प्रसिद्धिम् अलभत । मेवाड़राज्यस्य सिसोदियावंशे बप्पारावल-राणाहमीर-राणासांगा-प्रभृति-वीराणां सुदीर्घा परम्परा विद्यते । प्रतापः बाल्यकालादेव वीरयोद्धा, कुशल सेनानी, धीरनायकश्चासीत् ।

56. “अलभत” अस्मिन् पदे लकारः वर्तते –
(A) लङ्
(B) लृट्
(C) लोट
(D) लट्

Show Answer/Hide

Answer – (A)

57. यूनाम् आत्माहुत्या – रेखाङ्कितपदे वचनम् अस्ति –
(A) एकवचनम्
(B) द्विवचनम्
(C) बहुवचनम्
(D) सर्ववचनम्

Show Answer/Hide

Answer – (C)

58. वीराणां सुदीर्घा परम्परा विद्यते – इत्यस्मिन् वाक्ये विशेष्यपदम् अस्ति –
(A) वीराणाम्
(B) सुदीर्घा
(C) विद्यते
(D) परम्परा

Show Answer/Hide

Answer – (D)

59. “पूण्यभूमिम्” इत्यत्र कः समासः ?
(A) द्वन्द्वः
(B) द्विगुः
(C) कर्मधारयः
(D) अव्ययीभावः

Show Answer/Hide

Answer – (C)

60. “बाल्यकालादेव” इत्यत्र सन्धिविच्छेदः वर्तते –
(A) बाल्यकालादे + एव
(B) बाल्यकालात् + एव
(C) बाल्यकाल + आदेव
(D) बाल्यकाला + अदेव

Show Answer/Hide

Answer – (B)

 

Read Also :

Leave a Reply

Your email address will not be published.

error: Content is protected !!