REET 2022 Answer Key

REET Level 2 Exam Paper 23 July 2022 (Shift-II) (Section – III, Language-II, Sanskrit) (Official Answer Key)

76. ससन्दर्भव्याख्या, कथायाः सारादिक-लेखनेन सम्बद्धाः च प्रश्नाः भवन्ति –
(A) लघूत्तरात्मकाः
(B) निबन्धात्मकाः
(C) अतिलघूत्तरात्मका:
(D) बहुविकल्पात्मका:

Show Answer/Hide

Answer – (B)

77. पाठ्यपुस्तके सञ्चिता सामग्री भवेत् –
(A) शिक्षकाणाम् आर्थिक-सामाजिकस्तरानुसारम्
(B) शिक्षकाणां शारीरिक-मानसिकस्तरानुसारम्
(C) छात्राणां शारीरिक-मानसिकस्तरानुसारम्
(D) छात्राणां आर्थिक-सामाजिकस्तरानुसारम्

Show Answer/Hide

Answer – (C)

78. संस्कृतभाषाशिक्षणे सर्वप्रथम भाषाकौशलं विद्यते –
(A) श्रवणम्
(B) पठनम्
(C) सम्भाषणम्
(D) लेखनम्

Show Answer/Hide

Answer – (A)

79. प्रश्नानामुत्तरे अनेके विकल्पा: दीयन्ते । परीक्षार्थी एषु विकल्पेषु साधूत्तरं चिनोति । परीक्षायाः प्रकार: कः ?
(A) निबन्धात्मकप्रकारः
(B) बहुविकल्पप्रकारः
(C) लघूत्तरात्मकप्रकार:
(D) अतिलघूत्तरात्मकप्रकार:

Show Answer/Hide

Answer – (B)

80. उपचारात्मकशिक्षणस्य उद्देश्यमस्ति –
(A) सम्पूर्णपाठ्यक्रमाधारितप्रशिक्षणम्
(B) कक्षायां सामूहिकशिक्षणम्
(C) बालकस्य न्यूनतापरिष्कारायशिक्षणम्
(D) निदानात्मकपरीक्षणोपरान्त बालकस्य न्यूनतापरिष्काराय शिक्षणम्

Show Answer/Hide

Answer – (D)

निम्नलिखितम् अपठित गद्यांशम् आधारीकृत्य प्रश्नाः (81-85) समाधेयाः –

विश्वनाथ: कुशलकृषक: अपि अस्ति । तस्य गृहाङ्गणे वृन्दापादपः विकसति । परिवारजनाः तस्यार्चनं कुर्वन्ति । सः सर्वदा कृषिकर्मणि तत्परः स्वकर्त्तव्यं पालयति । सः परिश्रमं कृत्वा स्वक्षेत्रे पर्याप्तमात्रायां शाकानि फलानि च उत्पादयति । तस्य गृहे एका श्वेतवर्णा धेनु: वर्तते । सा दुग्धं प्रददाति ।

81. “श्वेतवर्णा” इत्यत्र समासः कः ?
(A) बहुव्रीहिः
(B) अव्ययीभावः
(C) कर्मधारयः
(D) तत्पुरुषः

Show Answer/Hide

Answer – (A)

82. “कृत्वा” अत्र धातुः प्रत्ययश्च स्त:
(A) कृत् + त्वा
(B) कृ + त्वा
(C) कृत् + वा
(D) कृ + क्त्वा

Show Answer/Hide

Answer – (D)

83. “मात्रायाम्” इत्यत्र का विभक्तिः ?
(A) पञ्चमी
(B) षष्ठी
(C) सप्तमी
(D) द्वितीया

Show Answer/Hide

Answer – (C)

84. ‘उत्पादयति’ इत्यत्र उपसर्गः अस्ति –
(A) यत्
(B) उत्, पा
(C) उद्
(D) प्र

Show Answer/Hide

Answer – (C)

85. “विश्वनाथः कुशलकृषक: अपि अस्ति ।” अस्मिन् वाक्ये अव्ययपदमस्ति –
(A) कुशलकृषक:
(B) अपि
(C) अस्ति
(D) विश्वनाथः

Show Answer/Hide

Answer – (B)

अधोलिखितं श्लोकम् आधारीकृत्य निम्नांकिताः (86-90) प्रश्नाः समाधेयाः

मरुः सुवर्णो न हि येन दृष्टः,
किं तेन दृष्ट कुहचित् सुदृश्यम् ।
स्फुटं मरौ भान्ति सुमेरुशृंगाः
शिलासु कृष्णासुन ते हि मृग्याः ।।

86. “सुवर्णः” इत्यत्र समासः कः ?
(A) तत्पुरुषः
(B) अव्ययीभावः
(C) द्वन्द्वः
(D) केवलसमासः

Show Answer/Hide

Answer – (A)

87. “दृष्टः” इत्यत्र प्रत्ययः अस्ति –
(A) क्तप्रत्ययः
(B) ल्यप्-प्रत्ययः
(C) क्यप्-प्रत्ययः
(D) क्तिन्-प्रत्ययः

Show Answer/Hide

Answer – (A)

88. उपर्युक्त-श्लोके छन्दसः नाम किम् ?
(A) उपजातिः
(B) इन्द्रवज्रा
(C) उपेन्द्रवज्रा
(D) वंशस्थ:

Show Answer/Hide

Answer – (A)

89. “शिलासु कृष्णासुन ते हि मृग्याः” इत्यत्र विशेषणपदम् अस्ति –
(A) शिलासु
(B) मृग्याः
(C) कृष्णासु
(D) ते

Show Answer/Hide

Answer – (C)

90. “मरुः” इत्यत्र लिङ्गमस्ति
(A) स्त्रीलिङ्गम्
(C) पुंल्लिङ्गम्
(B) नपुंसकलिङ्गम्
(D) सर्वलिङ्गम्

Show Answer/Hide

Answer – (C)

 

Read Also :

Read Related Posts

 

Leave a Reply

Your email address will not be published.

error: Content is protected !!