76. ‘अनुवादविधिः’ इति नाम्ना कः विधिः ?
(A) पाठशालाविधिः
(B) प्रत्यक्षविधिः
(C) भण्डार्करविधिः
(D) पाठ्यपुस्तकविधिः
Show Answer/Hide
77. ‘मूल्याङ्कनम्’ इति कीदृशी प्रक्रिया अस्ति ?
(A) सतत
(B) स्थिरा
(C) अवरूद्धा
(D) प्रतिबद्धा
Show Answer/Hide
78. “अनुपातस्य क्रमस्य च नियमः” इति किम् ?
(A) शिक्षणसूत्रम्
(B) शिक्षणसिद्धान्तः
(C) शिक्षणविधिः
(D) शिक्षणकौशलम्
Show Answer/Hide
79. अधोलिखितेषु श्रव्यसाधनं नास्ति –
(A) रेडियो
(B) दूरदर्शनम्
(C) ध्वनि-अभिलेखयन्त्रम्
(D) प्रतिकृतिः
Show Answer/Hide
80. ‘साक्षात्कारः’ इति कस्य भागः ?
(A) मूल्याङ्कनस्य
(B) शिक्षणविधेः
(C) शिक्षणसूत्राणाम्
(D) अनुदेशनस्य
Show Answer/Hide
अधोलिखितम् अपठितगद्यांशमाधारीकृत्य प्रश्नाः (81-85) समाधेयाः –
अस्माकं जन्मभूमिः भारतवर्षम् अस्ति । एतदर्थं वयं भारतमातरि स्निह्यामः । यदा अस्माकं देशः परतन्त्रः आसीत् तदा अस्माकं देशवासिनः दुःखिनः आसन् । महात्मागांधी, लोकमान्यतिलकः, पण्डितमदनमोहनमालवीयः, सरदारवल्लभभाईपटेलः इत्यादयः महान्तः राष्ट्रभक्ताः नेतारः स्वजन्मभूमि भारतवर्षं परतन्त्रतायाः पाशान् मोचयितुं महत्प्रयत्नं कृतवन्तः । ईदृशी एव प्रीतिः जननी जन्मभूमिं च प्रति अस्माकं भवेत् ।
81. ‘भारतमातरि’ इत्यत्र का विभक्तिः?
(A) प्रथमा
(B) षष्ठी
(C) सप्तमी
(D) तृतीया
Show Answer/Hide
82. ‘कृतवन्तः’ इत्यत्र कः प्रत्ययः ?
(A) शतृ
(B) शानच्
(C) अण्
(D) क्तवतु
Show Answer/Hide
83. ‘नेतारः’ इत्यत्र मूलशब्दः कः ?
(A) नेता
(B) नेतृ
(C) नेतिन्
(D) नेतृन्
Show Answer/Hide
84. ‘राष्ट्रभक्ताः’ इत्यत्र कः समासः ?
(A) द्वन्द्वःसमासः
(B) द्विगुसमासः
(C) तत्पुरुषसमासः
(D) अव्ययीभावसमासः
Show Answer/Hide
85. ‘ईदृशी एव प्रीतिः अस्माकं भवेत्’ इत्यत्र रेखांकित-पदे किम् कारकम् ?
(A) सम्प्रदानकारकम्
(B) अपादानकारकम्
(C) अधिकरणकारकम्
(D) कर्तृकारकम्
Show Answer/Hide
निम्नलिखितं पद्यांशम् आधारीकृत्य प्रश्नाः (86-90) समाधेयाः –
वर्षागमे चारूमरूं विहाय क्वान्यत्र कस्यापि रमेतचित्तम् ।
सरःसु वर्षासमयेऽपि यस्मिन् शरत् – प्रसन्नं सलिलं चकास्ति ।।
86. “वर्षासमयेऽपि” इत्यत्र कः आदेशः ?
(A) पररूपमेकादेशः
(B) पूर्वरूपमेकादेशः
(C) यणादेशः
(D) शल्वादेशः
Show Answer/Hide
87. ‘शरत् – प्रसन्नं सलिलं चकास्ति’ इत्यत्र विशेष्यपदं किम् ?
(A) शरत्
(B) सलिलम्
(C) प्रसन्नम्
(D) चकास्ति
Show Answer/Hide
88. सर:सु इत्यत्र किम् लिङ्गम् अस्ति ?
(A) पुल्लिङ्गम्
(B) स्त्रीलिङ्गम्
(C) नपुंसकलिङ्गम्
(D) उभयलिङ्गम्
Show Answer/Hide
89. ‘विहाय’ इत्यत्र कः प्रत्ययः ?
(A) क्त्वा
(B) ल्यप्
(C) क्त
(D) यत्
Show Answer/Hide
90. अस्मिन् उपर्युल्लिखिते पद्ये किं छन्दः वर्तते ?
(A) अनुष्टप्
(B) उपजातिः
(C) इन्द्रवज्रा
(D) उपेन्द्रवज्रा
Show Answer/Hide
Read Also : |
---|