NCERT Solutions Class 10 Sanskrit (Shemushi Part – II)
The NCERT Solutions in Sanskrit Language for Class 10 Sanskrit (Shemushi Part – II – शेमुषी द्वितीयो भाग:) Chapter – 3 व्यायामः सर्वदा पथ्यः has been provided here to help the students in solving the questions from this exercise.
अध्याय 3 – व्यायामः सर्वदा पथ्यः
अभ्यासः |
1. एकपदेन उत्तरं लिखत-
(क) परमम् आरोग्यं कस्मात् उपजायते?
उत्तर – व्यायामात्
(ख) कस्य मांस स्थिरीभवति?
उत्तर – व्यायामाभिरतस्य
(ग) सदा कः पथ्यः?
उत्तर – व्यायामः
(घ) कै: पुभिः सर्वेषु ऋतुषु व्यायामः कर्तव्यः?
उत्तर – आत्महितैषिभि
(ङ) व्यायामस्विन्नगात्रस्य समीपं के न उपसर्पन्ति?
उत्तर – व्याधयो
2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-
(क) कीदृशं कर्म व्यायामसंज्ञितम् कथ्यते?
उत्तर – शरीरायासजननम् कर्म व्यायामसज्ञितम् कथ्यते।
(ख) व्यायामात् कि किमुपजायते?
उत्तर – व्यायामात् श्रमक्लमपिपासा ऊष्म-शीतादीनां सहिष्णुता-परमं च आरोग्यम् उपजायते।
(ग) जरा कस्य सकाशं सहसा न समधिरोहति?
उत्तर – जरा व्यायामिनस्य जनस्य सकाशं सहसा न समधिगच्छति।
(घ) कस्य विरुद्धमपि भोजनं परिपच्यते?
उत्तर – व्यायाम कुर्वतो नित्य विरुद्धमपि भोजनं परिपच्यते।
(ङ) कियता बलेन व्यायामः कर्तव्यः?
उत्तर – अर्धन बलेन व्यायामः कर्तव्यः।
(च) अर्धबलस्य लक्षणम् किम्?
उत्तर – व्यायाम कुर्वतः जन्तोः यदा हृदिस्थानास्थितः वायुः वस्त्र प्रपद्यते तद् अर्धबलस्य लक्षणम् अस्ति।
3. उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पुरयत-
यथा – व्यायामः _________ होनमपि सुदर्शनं करोति (गुण)
व्यायामः गुणैः हीनमपि सुदर्शनं करोति।
(क) ________ व्यायामः कर्त्तव्यः। (बलस्याधं)
(ख) ________ सदृशं किञ्चित् स्थौल्यापकर्षणं नास्ति। (व्यायाम)
(ग) ________ विना जीवनं नास्ति। (विद्या)
(घ) सः ________ खञ्जः अस्ति। (चरण)
(ङ) सूपकारः ________ भोजनं जिघ्रति। (नासिका)
उत्तर –
(क) बलस्यार्धन व्यायामः कर्त्तव्यः। (बलस्याधं)
(ख) व्यायामेन सदृशं किञ्चित् स्थौल्यापकर्षणं नास्ति। (व्यायाम)
(ग) विद्यया विना जीवनं नास्ति। (विद्या)
(घ) सः चरणेन खञ्जः अस्ति। (चरण)
(ङ) सूपकारः नासिकया भोजनं जिघ्रति। (नासिका)
4. (अ) स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
(क) शरीरस्य आयासजननं कर्म व्यायामः इति कथ्यते।
उत्तर – कस्य आयासजननं कर्म व्यायामः इति कथ्यते?
(ख) अरयः व्यायामिनं न अर्दयन्ति।
उत्तर – के व्यायामिनं न अर्दयन्ति?
(ग) आत्महितैषिभिः सर्वदा व्यायामः कर्तव्यः।
उत्तर – कैः सर्वदा व्यायामः कर्तव्यः?
(घ) व्यायाम कुर्वतः विरुद्धं भोजनम् अपि परिपच्यते।
उत्तर – व्यायाम कुर्वतः कीदृशम् भोजनम् अपि परिपच्यते?
(ङ) गात्राणां सुविभक्तता व्यायामेन संभवति।
उत्तर – केषाम् सुविभक्तता व्यायामेन संभवति?
4. (आ) षष्ठ श्लोकस्य भावमाश्रित्य रिक्तस्थानानि पूरयत-
यथा- ________ समीपे उरगाः न ________ एवमेव व्यायामिनः जनस्य समीपं ________ न गच्छन्ति। व्यायामः वयोरूपेगुणहीनम् अपि जनम् ________ करोति।
उत्तर – वैनतेयस्य समीपे उरगाः न गच्छन्ति एवमेव व्यायामिनः जनस्य समीपं व्याधयः (रोगाः) न गच्छन्ति। व्यायामः वयोरूपेगुणहीनम् अपि जनम् सुदर्शन (दर्शननीयम्) करोति।
5. ‘व्यायामस्य लाभाः’ इति विषयमधिकृत्य पञ्चवाक्येषु ‘संस्कृतभाषया’ एकम् अनुच्छेद लिखत।
(अ) यथानिर्देशमुत्तरत –
(क) ‘तत्कृत्वा तु सुखं देहम्’ अत्र विशेषणपदं किम्?
उत्तर – सुखं
(ख) ‘व्याधयो नोपसर्पन्ति वैनतेयमिवोरगाः’ अस्मिन् वाक्ये क्रियापदं किम्?
उत्तर – उपसर्यन्ति
(ग) ‘पुम्भिरात्महितैषिभिः’ अत्र ‘पुरुषैः’ इत्यर्थे कि पदं प्रयुक्तम्?
उत्तर – पुम्भि
(घ) ‘दीप्ताग्नित्वमनालस्य स्थिरत्वं लाघवं मजा’ इति वाक्यात ‘गौरवम्’ इति पदस्य विपरीतार्थकं पदं चित्वा लिखत।
उत्तर – लाघवं
(ङ) न चास्ति सदृशं तेन किञ्चित् स्थौल्यापकर्षणम्’ अस्मिन् वाक्ये ‘तेन’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
उत्तर – व्यायामम्
6. (अ) निम्नलिखितानाम् अव्ययानाम् रिक्तस्थानेषु प्रयोगं कुरुत-
सहसा, अपि, सदृशं, सर्वदा, यदा, सदा, अन्यथा
(क) _______ व्यायामः कर्त्तव्यः।
(ख) _______ मनुष्यः सम्यकूरूपेण व्यायाम करोति तदा सः _______ स्वस्थः तिष्ठति।
(ग) व्यायामेन असुन्दराः _______ सुन्दराः भवति।
(घ) व्यायामिनः जनस्य सकाशं वार्धक्यं _______ नायाति।
(ङ) व्यायामेन _______ किञ्चित् स्थौल्यापकर्षणं नास्ति।
(च) व्यायाम समीक्ष्य एवं कर्तव्यम् _______ व्याधयः आयान्ति।
उत्तर –
(क) सर्वदा व्यायामः कर्त्तव्यः।
(ख) यदा मनुष्यः सम्यकूरूपेण व्यायाम करोति तदा सः सदा स्वस्थः तिष्ठति।
(ग) व्यायामेन असुन्दराः अपि सुन्दराः भवति।
(घ) व्यायामिनः जनस्य सकाशं वार्धक्यं सहसा नायाति।
(ङ) व्यायामेन सदृश किञ्चित् स्थौल्यापकर्षणं नास्ति।
(च) व्यायाम समीक्ष्य एवं कर्तव्यम् अन्यथा व्याधयः आयान्ति।
6. (आ) उदाहरणमनुसृत्य वाच्यपरिवर्तनं कुरुत –
कर्मवाच्यम् | कर्त्रुवाच्यम् |
यथा– आत्महितैषिभि: व्यायाम: क्रियते | आत्महितैषिण: व्यायाम कुर्वन्ति। |
(1) बलवता विरुद्धमपि भोजन पच्यते। | __________ |
(2) जनै: व्यायामेन कान्ति: लभ्यते। | __________ |
(3) मोहनेन पाठ: पठ्यते। | __________ |
(4) लतया गीत॑ गीयते। | __________ |
उत्तर –
कर्मवाच्यम् | कर्त्रुवाच्यम् |
(1) बलवता विरुद्धमपि भोजन पच्यते। | बलवान् विरुद्धमपि भोजन पचति। |
(2) जनै: व्यायामेन कान्ति: लभ्यते। | जनाः व्यायामेन कान्ति लभन्ते। |
(3) मोहनेन पाठ: पठ्यते। | मोहनः पाठं पठति। |
(4) लतया गीत॑ गीयते। | लता गीत गायति। |
7. अधोलिखितेषु तद्धितपदेषु प्रकृति/प्रत्ययं च पृथक् कृत्वा लिखत –
‘मूलशब्द: ( प्रकृति: ) | प्रत्यय: | |
(क) पथ्यतम: | ________ | ________ |
(ख) सहिष्णुता | ________ | ________ |
(ग) अग्नित्वम् | ________ | ________ |
(घ) स्थिरत्वम् | ________ | ________ |
(ङ) लाघवमू | ________ | ________ |
उत्तर –
‘मूलशब्द: ( प्रकृति: ) | प्रत्यय: | |
(क) पथ्यतम: | पथ्य | तमप् |
(ख) सहिष्णुता | सहिष्णु | तल् |
(ग) अग्नित्वम् | अग्नि | त्व |
(घ) स्थिरत्वम् | स्थिर | त्व |
(ङ) लाघवमू | लाघु | ष्यञ् |