NCERT Solutions Class 9 Sanskrit (Shemushi Prathmo)
The NCERT Solutions in Sanskrit Language for Class 9 Sanskrit (Shemushi Prathmo – शेमुषी प्रथमो भाग:) Chapter – 9 सिकतासेतुः has been provided here to help the students in solving the questions from this exercise.
नवमः पाठः – (सिकतासेतुः)
अभ्यासः
1. एकपदेन उत्तरं लिखत –
(क) कः बाल्ये विद्यां न अधीतवान्?
उत्तर – तपोदत्तः
(ख) तपोदत्तः कया विद्याम् अवाप्तुं प्रवृत्तः अस्ति?
उत्तर – तपसा/तपस्यया/तपोभिः
(ग) मकरालये कः शिलाभिः सेतुं बबन्ध?
उत्तर – श्रीरामः
(घ) मार्गभ्रान्तः सन्ध्यां कुत्र उपैति?
उत्तर – गृहम्
(ङ) पुरुषः सिकताभिः किं करोति?
उत्तर – सेतुनिर्माणम्
2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत –
(क) अनधीतः तपोदत्तः कैः गर्हितोऽभवत्?
उत्तर – अनधीतः तपोदत्तः सर्वैः कुटुम्बिभिः मित्रैः ज्ञातिजनैः च गर्हितः अभवत्।
(ख) तपोदत्तः केन प्रकारेण विद्यामवाप्तुं प्रवृत्तोऽभवत्?
उत्तर – नरः केवलं परिधानैः अलङ्कारैः च भूषितः अपि विद्यां विना कुत्रापि न शोभते इति विचार्य सर्वैः निन्दितः अनधीतः तपोदत्तः विद्याम् अवाप्तुम् प्रवृतः अभवत्।
(ग) तपोदत्तः पुरुषस्य कां चेष्टां दृष्ट्वा अहसत्?
उत्तर – सिकताभिः सेतुनिर्माण-प्रयासं कुर्वाणं पुरुषं दृष्ट्वा तपोदत्तः अहसत्।
(घ) तपोमात्रेण विद्यां प्राप्तुं तस्य प्रयासः कीदृशः कथितः?
उत्तर – तपोमात्रेण विद्यां प्राप्तुं तस्य प्रयासः सिकताभिः एव सेतुनिर्माण-प्रयासः कथितः।
(ङ) अन्ते तपोदत्तः विद्याग्रहणाय कुत्र गत:?
उत्तर – अन्ते तपोदत्तः विद्याग्रहणाय गुरुकुलम् गतः।
3. भिन्नवर्गीयं पदं चिनुत –
यथा- अधिरोढुम्, गन्तुम्, सेतुम्, निर्मातुम्।
(क) निःश्वस्य, चिन्तय, विमृश्य, उपेत्य।
उत्तर – चिन्तय
(ख) विश्वसिमि, पश्यामि, करिष्यामि, अभिलषामि।
उत्तर – करिष्यामि
(ग) तपोभिः, दुर्बुद्धिः, सिकताभिः, कुटुम्बिभिः।
उत्तर – दुर्बुद्धिः
4. (क) रेखाङ्कितानि सर्वनामपदानि कस्मै प्रयुक्तानि?
(i) अलमलं तव श्रमेण।
(ii) न अहं सोपानमा रट्टमधिरोढुं विश्वसिमि।
(iii) चिन्तितं भवता न वा।
(iv) गुरुगृहं गत्वैव विद्याभ्यासो मया करणीयः।
(v) भवद्भिः उन्मीलितं मे नयनयुगलम्।
उत्तर –
(i) पुरुषाय
(ii) पुरुषाय
(iii) पुरुषाय
(iv) तपोदत्ताय
(v) तपोदत्ताय
(ख) अधोलिखितानि कथनानि कः कं प्रति कथयति?
कथनानि | कः | कम् |
(i) हा विधे! किमिदं मया कृतम्? | ____________ | ____________ |
(ii) भो महाशय! किमिदं विधीयते। |
____________ | ____________ |
(iii) भोस्तपस्विन्! कथं माम् अवरोधं करोषि। |
____________ | ____________ |
(iv) सिकताः जलप्रवाहे स्थास्यन्ति किम्? |
____________ | ____________ |
(v) नाहं जाने कोऽस्ति भवान्? |
____________ | ____________ |
उत्तर –
कथनानि | कः | कम् |
(i) हा विधे! किमिदं मया कृतम्? | तपोदत्तः | विधिम् |
(ii) भो महाशय! किमिदं विधीयते। |
तपोदत्तः | पुरुषम् |
(iii) भोस्तपस्विन्! कथं माम् अवरोधं करोषि। |
पुरुषः | तपोदत्तम् |
(iv) सिकताः जलप्रवाहे स्थास्यन्ति किम्? |
तपोदत्तः | पुरुषम् |
(v) नाहं जाने कोऽस्ति भवान्? |
तपोदत्तः | पुरुषम् |
5. स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
(क) तपोदत्तः तपश्चर्यया विद्यामवाप्तुं प्रवृत्तोऽस्ति।
प्रश्ना: – तपोदत्तः कया विद्यामवाप्तुं प्रवृत्तोऽस्ति?
(ख) तपोदत्तः कुटुम्बिभिः मित्रैः गर्हितः अभवत्।
प्रश्ना: – कः कुटुम्बिभिः मित्रैः गर्हितः अभवत्?
(ग) पुरुषः नद्यां सिकताभिः. सेतुं निर्मातुं प्रयतते।
प्रश्ना: – पुरुषः कुत्र/कस्याम् सिकताभिः सेतुं निर्मातुं प्रयतते?
(घ) तपोदत्तः अक्षरज्ञानं विनैव वैदुष्यमवाप्तुम् अभिलषति।
प्रश्ना: – तपोदत्तः किम् विनैव वैदुष्यमवाप्तुम् अभिलषति?
(ङ) तपोदत्तः विद्याध्ययनाय गुरुकुलम् अगच्छत्।
प्रश्ना: – तपोदत्तः किमर्थम् गुरुकुलम् अगच्छत्?
(च) गुरुगृहं गत्वैव विद्याभ्यासः करणीयः।
प्रश्ना: – कुत्र गत्वैव विद्याभ्यासः करणीयः?
6. उदाहरणमनुसृत्य अधोलिखितविग्रहपदानां समस्तपदानि लिखत –
विग्रहपदानि | समस्तपदानि |
यथा- संकल्पस्य सातत्येन | संकल्पसातत्येन |
(क) अक्षराणां ज्ञानम् | _________ |
(ख) सिकतायाः सेतुः |
_________ |
(ग) पितुः चरणैः |
_________ |
(घ) गुरोः गृहम् |
_________ |
(ङ) विद्यायाः अभ्यासः |
_________ |
उत्तर –
विग्रहपदानि | समस्तपदानि |
(क) अक्षराणां ज्ञानम् | अक्षरज्ञानम् |
(ख) सिकतायाः सेतुः | सिकतासेतुः |
(ग) पितुः चरणैः | पितृचरणैः |
(घ) गुरोः गृहम् | गुरुगृहम् |
(ङ) विद्यायाः अभ्यासः | विद्याभ्यासः |
(अ) उदाहरणमनुसृत्य अधोलिखितानां समस्तपदानां विग्रहं कुरुत –
समस्तपदानि | विग्रहः |
यथा- नयनयुगलम् | नयनयोः युगलम् |
(क) जलप्रवाहे |
________ |
(ख) तपश्चर्यया | ________ |
(ग) जलोच्छलनध्वनिः | ________ |
(घ) सेतुनिर्माणप्रयासः | ________ |
उत्तर –
समस्तपदानि | विग्रहः |
(क) जलप्रवाहे | जलस्य प्रवाहे |
(ख) तपश्चर्यया | तपसः चर्यया |
(ग) जलोच्छलनध्वनिः | जलस्य उच्छलनध्वनिः |
(घ) सेतुनिर्माणप्रयासः | सेतोः निर्माणप्रयासः |
7. उदाहरणमनुसृत्य कोष्ठकात् पदम् आदाय नूतनं वाक्यद्वयं रचयत –
(क) यथा- अलं चिन्तया। (‘अलम्’ योगे तृतीया)
(i) __________ __________ (भय)
(ii) __________ __________ (कोलाहल)
उत्तर –
(i) अलम् भयेन
(ii) अलं कोलाहलेन
(ख) यथा- माम् अनु स गच्छति। (‘अनु’ योगे द्वितीया)
(i) __________ __________ __________ __________ (गृह)
(ii) __________ __________ __________ __________ (पर्वत)
उत्तर –
(i) गृहम् अनु उद्यानम् अस्ति।
(ii) पर्वतम् अनु ग्रामः अस्ति।
(ग) यथा- अक्षरज्ञानं विनैव वैदुष्यं प्राप्तुमभिलषसि। (‘विना’ योगे द्वितीया)
(i) __________ __________ __________ __________ (परिश्रम)
(ii) __________ __________ __________ __________ (अभ्यास)
उत्तर –
(i) परिश्रमम् विना कार्यं न सिद्धयति।
(ii) अभ्यासं विना वैराग्यम् न प्राप्नोति।
(घ) यथा- सन्ध्यां यावत् गृहमुपैति। (‘यावत्’ योगे द्वितीया)
(i) __________ __________ __________ __________ (मास)
(ii) __________ __________ __________ __________ (वर्ष)
उत्तर –
(i) मासं यावत् वर्षा न भवति।
(ii) वर्षं यावत् अतिथिः न गच्छति।