NCERT Solutions Class 9 Sanskrit (Shemushi Prathmo)
The NCERT Solutions in Sanskrit Language for Class 9 Sanskrit (Shemushi Prathmo – शेमुषी प्रथमो भाग:) Chapter – 8 लौहतुला has been provided here to help the students in solving the questions from this exercise.
अष्टमः पाठः – (लौहतुला)
अभ्यासः
1. एकपदेन उत्तरं लिखत –
(क) वणिक्पुत्रस्य किं नाम आसीत्?
(ख) तुला कैः भक्षिता आसीत्?
(ग) तुला कीदृशी आसीत्?
(घ) पुत्रः केन हृतः इति जीर्णधनः वदति?
(ङ) विवदमानौ तौ द्वावपि कुत्र गतौ?
उत्तर –
(क) धनदेवः
(ख) मूषकैः
(ग) लौहघटिता
(घ) श्येनेन
(ङ) राजकुलम्
2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत –
(क) देशान्तरं गन्तुमिच्छन् वणिक्पुत्रः किं व्यचिन्तयत्?
उत्तर – देशान्तरं गन्तुमिच्छन् वणिक्पुत्रः व्यचिन्तयत् यत् यस्मिन् देशे स्ववीर्यतः भोगाः भुक्ताः तत्र विभवहीनः यः वसेत् सः पुरुषाधमः।
(ख) स्वतुला याचमानं जीर्णधनं श्रेष्ठी किम् अकथयत्?
उत्तर – स्वतुला याचमानं जीर्णधनं श्रेष्ठी अकथयत् यत् तुला मूषकैः भक्षिता।
(ग) जीर्णधनः गिरिगुहाद्वारं कया आच्छाद्य गृहमागतः?
उत्तर – जीर्णधनः गिरिगुहाद्वारं बृहत्शिलया आच्छाद्य गृहम् आगतः।
(घ) स्नानानन्तरं पुत्रविषये पृष्टः वणिक्पुत्रः श्रेष्ठिनं किम् अवदत्?
उत्तर – स्नानानन्तरं पुत्रविषये पृष्टः वणिक्पुत्रः श्रेष्ठिनं अवदत् यत् नदीतटात् शिशुः श्येनेन हृतः।
(ङ) धर्माधिकारिणः जीर्णधनश्रेष्ठिनौ कथं तोषितवन्तः?
उत्तर – धर्माधिकारिणः जीर्णधनश्रेष्ठिनौ परस्परं संबोध्य तुला-शिशु-प्रदानेन तोषितवन्तः।
3. स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
(क) जीर्णधनः विभवक्षयात् देशान्तरं गन्तुमिच्छन् व्यचिन्तयत्।
उत्तर – कः विभवक्षयात् देशान्तरं गन्तुमिच्छन् व्यचिन्तयत्?
(ख) श्रेष्ठिनः शिशुः स्नानोपकरणमादाय अभ्यागतेन सह प्रस्थितः।
उत्तर – श्रेष्ठिनः शिशुः स्नानोपकरणमादाय केन सह प्रस्थितः?
(ग) वणिक् गिरिगुहां बृहच्छिलया आच्छादितवान्।
उत्तर – वणिक् गिरिगुहां कया आच्छादितवान्।
(घ) सभ्यैः तौ परस्परं संबोध्य तुला-शिशु-प्रदानेन सन्तोषितौ।
उत्तर – सभ्यैः तौ परस्परं संबोध्य केन/कथम् सन्तोषितौ?
4. अधोलिखितानां श्लोकानाम् अपूर्णोऽन्वयः प्रदत्तः पाठमाधृत्य तं पूरयत –
(क) यत्र देशे अथवा स्थाने स्ववीर्यतः भोगाः भुक्ता ____________________ ।
(ख) राजन्! यत्र लौहसहस्रस्य तुलां मूषकाः खादन्ति ____________________।
उत्तर –
(क) यत्र देशे अथवा स्थाने स्ववीर्यतः भोगाः भुक्ता तस्मिन् विभवहीनः यः वसेत् स पुरुषाधमः।
(ख) राजन्! यत्र लौहसहस्रस्य तुलां मूषकाः खादन्ति तत्र श्येनः बालकः हरेत् अत्र संशयः न।
5. तत्पदं रेखाङ्कितं कुरुत यत्र –
(क) ल्यप् प्रत्ययः नास्ति
विहस्य, लौहसहस्रस्य, संबोध्य, आदाय
उत्तर – लोहसहस्रस्य
(ख) यत्र द्वितीया विभक्तिः नास्ति
श्रेष्ठिनम्, स्नानोपकरणम्, सत्त्वरम्, कार्यकारणम्
उत्तर – सत्त्वरम्
(ग) यत्र षष्ठी विभक्तिः नास्ति
पश्यतः, स्ववीर्यतः, श्रेष्ठिनः सभ्यानाम्
उत्तर – स्ववीर्यतः
6. सन्धिना सन्धिविच्छेदेन वा रिक्तस्थानानि पूरयत –
(क) श्रेष्ठ्याह | =________ + आह |
(ख) ______ | = द्वौ + अपि |
(ग) पुरुषोपार्जिता | = पुरुष + ______ |
(घ) ______ | = यथा + इच्छया |
(ङ) स्नानोपकरणम् | = ______ + उपकरणम |
(च) ______ | = स्नान + अर्थम् |
उत्तर –
(क) श्रेष्ठ्याह | = श्रेष्ठी + आह |
(ख) द्वावपि | = द्वौ + अपि |
(ग) पुरुषोपार्जिता | = पुरुष + उपार्जिता |
(घ) यथेच्छया | = यथा + इच्छया |
(ङ) स्नानोपकरणम् | = स्नान + उपकरणम |
(च) स्नानार्थम् | = स्नान + अर्थम् |
7. समस्तपदं विग्रहं वा लिखत –
विग्रहः | समस्तपदम् |
(क) स्नानस्य उपकरणम् | = ________ |
(ख) ________ ________ |
= गिरिगुहायाम् |
(ग) धर्मस्य अधिकारी |
= ________ |
(घ) ________ ________ |
= विभवहीनाः |
उत्तर –
विग्रहः | समस्तपदम् |
(क) स्नानस्य उपकरणम् | = स्नानोपकरणम् |
(ख) गिरेः गुहायाम् | = गिरिगुहायाम् |
(ग) धर्मस्य अधिकारी | = धर्माधिकारी |
(घ) विभवैः हीनाः | = विभवहीनाः |
(अ) यथापेक्षम् अधोलिखितानां शब्दानां सहायतया “लौहतुला” इति कथायाः सारांशं संस्कृतभाषया –
वणिक्पुत्रः | स्नानार्थम् |
लौहतुला | अयाचत् |
वृत्तान्तं | ज्ञात्वा |
श्रेष्ठिन | प्रत्यागतः |
गतः | प्रदानम् |
उत्तर –
एकदा जीर्णधनः नाम वणिक्पुत्रः धनोपार्जनाम देशान्तरं गन्तुम् अचिन्तयत्। तस्य गृहे एका ‘लौहतुला’ आसीत्। वणिक्पत्रः लौहतलाम् श्रेष्ठिनः गृहे रक्षित्वा सः देशान्तरं अस्थितः। देशान्तरं भ्रान्त्वा पुन: स्वपुरम् प्रत्यागत्य सः तुलामयाचत्। सः श्रेष्ठी अयाचत् -“तुला तु मूषके: भक्षिता।” ततः जीर्णधनः श्रेष्ठिनः पुत्रेण सह स्नानार्थ गतः। स्नात्वा सः श्रेष्ठिपुत्रं गिरिगुहायां प्रक्षिप्य, तद्द्वारं च बृहच्छिलया आच्छाद्य गृहम् आगतः। ततः सः वणिक् श्रेष्ठिनं स्वपुत्रविषये अपृच्छत्। वणिक् उवाच-“नदीतटात् सः श्येनेन हृतः” इति। सः शीघ्रमाह-“श्येन: बालं हर्तुं न शक्नोति अत: समर्पय में सुतम्। जीर्णधनः अवदत् यत्र लौहसहस्रस्य तुला मूषकाः खादन्ति तत्र बालकः श्येनेन हरेत्।” एवं विवदमानौ तौ राजकुलं गतौ। सर्व वृत्तान्तं ज्ञात्वा धर्माधिकारिभिः तुला-शिशु-प्रदानेन तौ द्वौ सन्तोषितौ।