NCERT Solutions Class 9 Sanskrit (Shemushi Prathmo) Chapter 4 कल्पतरूः

NCERT Solutions Class 9 Sanskrit (Shemushi Prathmo)

The NCERT Solutions in Sanskrit Language for Class 9 Sanskrit (Shemushi Prathmo – शेमुषी प्रथमो भाग:) Chapter – 4 कल्पतरूः has been provided here to help the students in solving the questions from this exercise. 

चतुर्थः पाठः – (कल्पतरूः) 

अभ्यासः

1. एकपदेन उत्तरं लिखत – 

(क) जीमूतवाहनः कस्य पुत्रः अस्ति?
उत्तर – जीमूतकेतोः

(ख) संसारेऽस्मिन् कः अनश्वरः भवति?
उत्तर – परोपकारः

(ग) जीमूतवाहनः परोपकारैकफलसिद्धये कम् आराधयति?
उत्तर – कल्पपादम्

(घ) जीमूतवाहनस्य सर्वभूतानुकम्पया सर्वत्र किं प्रथितम्?
उत्तर – यशः

(ङ) कल्पतरुः भुवि कानि अवर्षत्?
उत्तर – वसूनि

2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत –

(क) कञ्चनपुरं नाम नगरं कुत्र विभाति स्म?
उत्तर – कञ्चनपुरं नाम नगरं हिमालयस्य शिखरस्य उपरि विभाति स्म।

(ख) जीमूतवाहनः कीदृशः आसीत्?
उत्तर – जीमूतवाहनः महान् दानवीरः सर्वभूतानुकम्पी च अभवत्।

(ग) कल्पतरोः वैशिष्ट्यमाकर्ण्य जीमूतवाहनः किम् अचिन्तयत्?
उत्तर – कल्पतरोः वैशिष्ट्यमाकर्ण्य जीमूतवाहनः अचिन्तयत्, “ईदृशम् अमरपादपं प्राप्यापि अस्माकं पूर्वैः पुरुषैः तादृशं फलं किमपि न आसादितं किन्तु केवलं कैश्चिदेव कृपणैः कश्चिदपि अर्थः अर्थितः।”

(घ) हितैषिणः मन्त्रिणः जीमूतवाहनं किम् उक्तवन्तः?
उत्तर – हितैषिणः मन्त्रिणः जीमूतवाहनम् उक्तवन्तः-“युवराज! योऽयं सर्वकामदः कल्पतरुः तवोद्याने तिष्ठति सः तव सदा पूज्यः अस्मिन् अनुकूले स्थिते सति शक्रोऽपि अस्मान् बाधितुं न शक्नुयात्” इति।

(ङ) जीमूतवाहनः कल्पतरुम् उपगम्य किम् उवाच?
उत्तर – जीमूतवाहनः कल्पतरुम् उपगम्य उवाच-“देव! त्वया अस्मत्पूर्वेषाम् अभीष्टाः कामाः पूरिताः, तन्ममेक काम पूरय। यथा पृथिवीम् अदरिद्राम् पश्यामि तथा करोतु देव” इति।

3. अधोलिखितवाक्येषु स्थूलपदानि कस्मै प्रयुक्तानि?

(क) तस्य सानोरुपरि विभाति कञ्चनपुरं नाम नगरम्।
उत्तर – तस्य — हिमालयपर्वताय (हिमवते)

(ख) राजा सम्प्राप्तयौवनं तं यौवराज्ये अभिषिक्तवान्?
उत्तर – तं — जीमूतवाहनाय

(ग) अयं तव सदा पूज्यः
उत्तर – अयं — कल्पतरवे

(घ) तात! त्वं तु जानासि यत् धनं वीचिवच्चञ्चलम्।
उत्तर – त्वं — जीमूतकेतवे/पित्रे

4. अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत
(क) पर्वतः — __________
(ख) भूपतिः — __________
(ग) इन्द्रः — __________
(घ) धनम् — __________
(ङ) इच्छितम् — __________
(च) समीपम् — __________
(छ) धरित्रीम् — __________
(ज) कल्याणम् — __________
(झ) वाणी — __________
(ञ) वृक्षः — __________
उत्तर –
(क) पर्वतः — नगेन्द्रः
(ख) भूपतिः — राजा
(ग) इन्द्रः — शक्रः
(घ) धनम् — वसूनि
(ङ) इच्छितम् — अभीष्टम्
(च) समीपम् — अन्तिकम्
(छ) धरित्रीम् — पृथ्वीम्
(ज) कल्याणम् — हितम्
(झ) वाणी — वाक्
(ञ) वृक्षः — तरुः

5. ‘क’ स्तम्भे विशेषणानि ‘ख’ स्तम्भे च विशेष्याणि दत्तानि। तानि समुचितं योजयत –

‘क’ स्तम्भ  ‘ख’ स्तम्भ
कुलक्रमागतः  परोपकारः
दानवीरः  मन्त्रिभिः
हितैषिभिः  जीमूतवाहनः
वीचिवच्चञ्चलम्  कल्पतरुः
अनश्वरः  धनम्

उत्तर –

‘क’ स्तम्भ  ‘ख’ स्तम्भ
कुलक्रमागतः  कल्पतरुः
दानवीरः  जीमूतवाहनः
हितैषिभिः  मन्त्रिभिः
वीचिवच्चञ्चलम्  धनम्
अनश्वरः  परोपकारः

6. स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत – 

(क) तरोः कृपया सः पुत्रम् अप्राप्नोत्।
उत्तर – कस्य कृपया सः पुत्रम् अप्राप्नोत्?

(ख) सः कल्पतरवे न्यवेदयत्।
उत्तर – सः कस्मै न्यवेदयत्?

(ग) धनवृष्ट्या कोऽपि दरिद्रः नातिष्ठत्।
उत्तर – कया कोऽपि दरिद्रः नातिष्ठत्?

(घ) कल्पतरुः पृथिव्यां धनानि अवर्षत्।
उत्तर – कल्पतरुः कुत्र धनानि अवर्ष?

(ङ) जीवानुकम्पया जीमूतवाहनस्य यशः प्रासरत्।
उत्तर – कया जीमूतवाहनस्य यशः प्रासरत्?

7. (क) “स्वस्ति तुभ्यम्” स्वस्ति शब्दस्य योगे चतुर्थी विभक्तिः भवति। इत्यनेन नियमेन अत्र चतुर्थी विभक्तिः प्रयुक्ता! एवमेव (कोष्टकगतेषु पदेषु) चतुर्थी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत
(क) स्वस्ति __________ (राजा)
(ख) स्वस्ति __________ (प्रजा)
(ग) स्वस्ति __________ (छात्र)
(घ) स्वस्ति __________ (सर्वजन)
उत्तर –
(क) स्वस्ति राजभ्यः
(ख) स्वस्ति प्रजाभ्यः
(ग) स्वस्ति छात्रेभ्यः
(घ) स्वस्ति सर्वजनेभ्यः

(ख) कोष्ठकगतेषु पदेषु षष्ठी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत – 
(क) तस्य __________ उद्याने कल्पतरुः आसीत्। (गृह)
(ख) सः __________ अन्तिकम् अगच्छत्। (पितृ)
(ग) __________ सर्वत्र यशः प्रथितम् (जीमूतवाहन)
(घ) अयं __________ तरुः? (किम्)
उत्तर –
(क) तस्य गृहस्य उद्याने कल्पतरुः आसीत्।
(ख) सः पितुः अन्तिकम् अगच्छत्।
(ग) जीमूतवाहनस्य सर्वत्र यशः प्रथितम्।
(घ) अयं कस्य तरुः?

Go Back To Chapters

Leave a Reply

Your email address will not be published.

Latest from Class 9 Sanskrit