NCERT Solutions Class 9 Sanskrit (Shemushi Prathmo)
The NCERT Solutions in Sanskrit Language for Class 9 Sanskrit (Shemushi Prathmo – शेमुषी प्रथमो भाग:) Chapter – 2 स्वर्णकाकः has been provided here to help the students in solving the questions from this exercise.
द्वितीयः पाठः – (स्वर्णकाकः)
अभ्यासः
1. एकपदेन उत्तरं लिखत
(क) माता काम् आदिश?
(ख) स्वर्णकाकः कान् अखाद?
(ग) प्रासादः कीदृशः वर्तते?
(घ) गृहमागत्य तया का समुद्घाटिता?
(ङ) लोभाविष्टा बालिका कीदृशीं मञ्जूषां नयति?
उत्तर –
(क) पुत्रीम्
(ख) ताण्डुलान्
(ग) स्वर्णमयः
(घ) मञ्जूषा
(ङ) बृहत्तमाम्
(अ) अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत–
(क) निर्धनायाः वृद्धायाः दुहिता कीदृशी आसीत्?
उत्तर – निर्धनायाः वृद्धायाः दुहिता विनम्रा मनोहरा च आसीत्।
(ख) बालिकया पूर्वं कीदृशः काकः न दृष्टः आसीत्?
उत्तर – बालिकया पूर्वं स्वर्णपक्षः रजतचञ्चुः स्वर्णकाकः न दृष्टः आसीत्।
(ग) निर्धनायाः दुहिता मञ्जूषायां कानि अपश्यत्?
उत्तर – निर्धनायाः दुहिता मञ्जूषां महार्हाणि हीरकाणि अपश्यत्।
(घ) बालिका किं दृष्ट्वा आश्चर्यचकिता जाता?
उत्तर – बालिका वृक्षस्योपरि स्वर्णमयम् प्रासादं दृष्ट्वा आश्चर्यचकिता जाता।
(ङ) गर्विता बालिका कीदृशं सोपानम् अयाचत् कीदृशं च प्राप्नोत्।
उत्तर – गर्विता बालिका स्वर्णमयं सोपानम् अयाचत् परम् ताम्रमयं सोपानम् च प्राप्नोत्।
2. (क) अधोलिखितानां शब्दानां विलोमपदं पाठात् चित्वा लिखत
(i) पश्चात् — ____________
(ii) हसितुम् — ____________
(iii) अधः — ____________
(iv) श्वेतः — ____________
(v) सूर्यास्तः — ____________
(vi) सुप्तः — ____________
उत्तर –
शब्दः — विलोमपदम्
(i) पश्चात् — पूर्वम्
(ii) हसितुम् — रोदितुम्
(iii) अधः — उपरि
(iv) श्वेतः — कृष्णः
(v) सूर्यास्तः — सूर्योदयः
(vi) सुप्तः — प्रबुद्धः
(ख) सन्धिं कुरुत
(i) नि + अवसत् — ____________
(ii) सूर्य + उदयः — ____________
(iii) वृक्षस्य + उपरि — ____________
(iv) हि + अकारयत् — ____________
(v) च + एकाकिनी — ____________
(vi) इति + उक्त्वा — ____________
(vii) प्रति + अवदत् — ____________
(viii) प्र + उक्तम् — ____________
(ix) अत्र + एव — ____________
(x) तत्र + उपस्थिता — ____________
(xi) यथा + इच्छम्– ____________
उत्तर –
सन्धि-विच्छेद — सन्धियुक्ताः शब्दाः
(i) नि + अवसत् — न्यवसत्
(ii) सूर्य + उदयः — सूर्योदयः
(iii) वृक्षस्य + उपरि — वृक्षस्योपरि
(iv) हि + अकारयत — ह्यकारयत्
(v) च + एकाकिनी — चैकाकिनी
(vi) इति + उक्त्वा — इत्युक्त्वा
(vii) प्रति + अवदत् — प्रत्यवदत्
(viii) प्र + उक्तम् — प्रोक्तम्
(ix) अत्र + एव — अत्रैव
(x) तत्र + उपस्थिता — तत्रोपस्थिता
(xi) यथा + इच्छम् — यथेच्छम्
3. स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत
(क) ग्रामे निर्धना स्त्री अवसत्।
उत्तर – ग्रामे का अवसत्?
(ख) स्वर्णकाकं निवारयन्ती बालिका प्रार्थयत्।
उत्तर – कम् निवारयन्ती बालिका प्रार्थयत्?
(ग) सूर्योदयात् पूर्वमेव बालिका तत्रोपस्थिता।
उत्तर – कस्मात् पूर्वमेव बालिका तत्रोपस्थिता?
(घ) बालिका निर्धनमातुः दुहिता आसीत्।।
उत्तर – बालिका कस्याः दुहिता आसीत्?
(ङ) लुब्धा वृद्धा स्वर्णकाकस्य रहस्यमभिज्ञातवती।
उत्तर – लुब्धा वृद्धा कस्य रहस्यमभिज्ञातवती?
4. प्रकृति-प्रत्यय-संयोगं कुरुत (पाठात् चित्वा वा लिखत)
(क) वि + लोकृ + ल्यप् – ________________
(ख) नि + क्षिप् + ल्यप् – ________________
(ग) आ + गम् + ल्यप् – ________________
(घ) दृश् + क्त्वा – ________________
(ङ) शी + क्त्वा – ________________
(च) लघु + तमप् – ________________
उत्तर –
. प्रकृति + प्रत्ययः — संयोग
(क) वि + लोक + ल्यप् — विलोक्य
(ख) नि + क्षिप् + ल्यप् — निक्षिप्य
(ग) आ + गम् + ल्यप् –आगत्य
(घ) दृश् + क्त्वा — दृष्ट्वा
(ङ) शी + क्त्वा — शयित्वा
(च) लघु + तमप् — लघुतमः
5. प्रकृतिप्रत्यय-विभागं कुरुत
(क) रोदितुम् — _______
(ख) दृष्ट्वा — _______
(ग) विलोक्य — _______
(घ) निक्षिप्य — _______
(ङ) आगत्य — _______
(च) शयित्वा — _______
(छ) लघुतमम् — _______
उत्तर –
(क) रोदितुम् — रुद् + तुमुन्
(ख) दृष्ट्वा — दृश् + क्त्वा
(ग) विलोक्य — वि + लोक् + ल्यप्
(घ) निक्षिप्य — नि + क्षिप् + ल्यप्
(ङ) आगत्य — आ + गम् + ल्यप्
(च) शयित्वा — शी + क्त्वा
(छ) लघुतमम् — लघु + तमप्
6. अधोलिखितानि कथनानि कः/का, कं/कां च कथयति –
कथनानि | कः/का | कं/काम् |
पूर्व प्रातराशः क्रियताम्। | ______ | ______ |
सूर्यातपे तण्डुलान् खगेभ्यो रक्ष। | ______ | ______ |
तण्डुलान् मा भक्षया | ______ | ______ |
अहं तुभ्यं तण्डुलमूल्यं दास्यामि। | ______ | ______ |
भो नीचकाक! अहमागता, महां तण्डुलमूल्यं प्रयच्छ। | ______ | ______ |
उत्तर –
कथनानि | कः/का | कं/काम् |
पूर्व प्रातराशः क्रियताम्। | स्वर्णकाक | बालिकाम् |
सूर्यातपे तण्डुलान् खगेभ्यो रक्ष। | वृद्धा माता | पुत्रीम् |
तण्डुलान् मा भक्षया | बालिका | स्वर्णकाकम् |
अहं तुभ्यं तण्डुलमूल्यं दास्यामि। | स्वर्णकाकः | बालिकाम् |
भो नीचकाक! अहमागता, महां तण्डुलमूल्यं प्रयच्छ। | लुब्धायाः पुत्री | स्वर्णकाकम् |
7. उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत –
यथा – मूषकः बिलाद् बहिः निर्गच्छति। (बिल)
(क) जनः __________ बहिः आगच्छति। (ग्राम)
(ख) नद्यः __________ निस्सरन्ति। (पर्वत)
(ग) __________पत्राणि पतन्ति। (वृक्ष)
(घ) बालकः __________ विभेति। (सिंह)
(ङ) ईश्वरः __________ त्रायते। (क्लेश)
(च) प्रभुः भक्तं __________ निवारयति। (पाप)
उत्तर –
(क) जनः ग्रामात् बहिः आगच्छति।
(ख) नद्यः पर्वतेभ्यः निस्सरन्ति।
(ग) वृक्षात् पत्राणि पतन्ति।
(घ) बालकः सिंहात् बिभेति।
(ङ) ईश्वरः क्लेशात् त्रायते।
(च) प्रभुः भक्तं पापात् निवारयति।