NCERT Solutions Class 9 Sanskrit (Shemushi Prathmo) Chapter 1 भारतीवसन्तगीतिः

NCERT Solutions Class 9 Sanskrit (Shemushi Prathmo)

The NCERT Solutions in Sanskrit Language for Class 9 Sanskrit (Shemushi Prathmo – शेमुषी प्रथमो भाग:) Chapter – 1 भारतीवसन्तगीतिः has been provided here to help the students in solving the questions from this exercise. 

प्रथमः पाठः – (भारतीवसन्तगीतिः) 

अभ्यासः

1. एकपदेन उत्तरं लिखत
(क) कविः कां सम्बोधयति?
(ख) कविः वाणी का वादयितुं प्रार्थयति?
(ग) कीदृशीं वीणां निनादयितुं प्रार्थयति।
(घ) गीति कथं गातुं कथयति?
(ङ) सरसाः रसालाः कदा लसन्ति?
उत्तर –
(क) वाणीं/सरस्वतीम्
(ख) वीणाम्
(ग) नवीनामयी
(घ) मृदुम्
(ङ) वसन्ते

2. पूर्णवाक्येन उत्तरं लिखत
(क) कविः वाणी किं कथयति?
(ख) वसन्ते किं भवति?
(ग) सलिलं तव वीणामाकर्ण्य कथम् उच्चले?
(घ) कविः भगवतीं भारती कस्याः तीरे मधुमाधवीनां नतां पङिक्तम् अवलोक्य वीणां वादयितुं कथयति?
उत्तर –
(क) कविः वाणी नवीनाम् वीणां वादयितुम् ललितनीतिलीनां गीतिं मृदुं च गातुम् कथयति।
(ख) वसन्ते मधुरमञ्जरी-पिञ्जरीभूतमालाः सरसा: रसालाः लसन्ति। ललित-कोकिलाकाकलीनां कलापाः च विलसन्ति।
(ग) सलिलं तव वीणामाकर्ण्य सलीलं (क्रीडायुक्तम्) उच्चलेत्।
(घ) कविः भगवतीं भारती कालिन्दात्मजायाः तीरे मधुमाधवीनां नतां पंक्तिम् अवलोक्य वीणां वादयितुम् कथयति।

3. ‘क’ स्तम्भे पदानि, ‘ख’ स्तम्भे तेषां पर्यायपदानि दत्तानि। तानि चित्वा पदानां समक्षे लिखत –

‘क’ स्तम्भ  ‘ख’ स्तम्भ
(क) सरस्वती  (1) तीरे
(ख) आम्रम् 
(2) अलीनाम्
(ग) पवनः  (3) समीरः
(घ) तटे  (4) वाणी
(ङ) भ्रमराणाम्  (5) रसाल:

उत्तर –

‘क’ स्तम्भ  ‘ख’ स्तम्भ
(क) सरस्वती  (4) वाणी
(ख) आम्रम् 
(5) रसाल:
(ग) पवनः  (3) समीरः
(घ) तटे  (1) तीरे
(ङ) भ्रमराणाम्  (2) अलीनाम्

4. अधोलिखितानि पदानि प्रयुज्य संस्कृतभाषया वाक्यरचनां कुरुत – 
(क) निनादय
(ख) मन्दमन्दम्
(ग) मारुतः
(घ) सलिलम्
(ङ) सुमनः
उत्तर –
(क) निनादय – शारदे! मधुराम् वीणां निनादय।
(ख) मन्दमन्दम् – प्रात: मन्दमन्दम् वायुः प्रसरति।
(ग) मारुतः – शुद्धः मारुतः स्वास्थ्यलाभप्रदः भवति।
(घ) सलिलम् – स्वच्छम् सलिलम् पानीयम्।
(ङ) सुमनः – उद्याने मनोहरः सुमनः विकसति।

5. प्रथमश्लोकस्य आशयं हिन्दीभाषया आङ्ग्लभाषया वा लिखत – 
उत्तर – प्रथमश्लोकस्य आशय-हे सरस्वती! नवीन वीणा बजाओ, सुन्दर नीतियों से युक्त मधुर गीत गाओ।

6. अधोलिखितपदानां विलोमपदानि लिखत – 
(क) कठोरम् — ____________
(ख) कटु — ____________
(ग) शीघ्रम् — ____________
(घ) प्राचीनम् — ____________
(ङ) नीरसः — ____________
उत्तर –
(क) कठोरम् — कोमलम्
(ख) कटु — मधुरम्
(ग) शीघ्रम् — शनैः शनैः
(घ) प्राचीनम् — नवीनम्
(ङ) नीरसः — सरसः

Go Back To Chapters

Leave a Reply

Your email address will not be published.

Latest from Class 9 Sanskrit