NCERT Solutions Class 9 Sanskrit (Abhyaswaan Bhav) Chapter 2 पत्रम्

NCERT Solutions Class 9 Sanskrit (Abhyaswaan Bhav)

The NCERT Solutions in Sanskrit Language for Class 9 Sanskrit (Abhyaswaan Bhav – अभ्यासवान् भव) Chapter – 2 पत्रम् has been provided here to help the students in solving the questions from this exercise. 

द्वितीयः पाठः – (पत्रम्) 

अभ्यासः

(क) अनौपचारिकम् पत्रम्

अभ्यासः – योगदिवसे भूयमाने कार्यक्रमे भगिन्याः सहभागित्व वर्णयन् एक पत्र लिखत।
उत्तर –

चण्डीगढ़म्
10/07/20xx

प्रिये भगिनि!
सप्रेम नमो नमः
आशास्ति यत् त्वं तत्र पूर्णतया कुशलिनी भविष्यसि। इदं श्रुत्वा मम मनसि आनन्दो जातः यत् भवती योगदिवसे पटेल चतुष्पथे नवदिल्याम् एकविंशतिमायां तारिकायां भूयमाने कार्यक्रमे भागं ग्रहीयति। इदं तु अतीव सुन्दर भविष्यति। “योगचित्तवृत्तिः निरोधः” अर्थात् योगः चित्तवृत्तीनां निरोधः कथ्यते।
जना: योगं कृत्वा शरीरेण मनसा, बुद्धया आत्मना च स्वस्थाः भवन्ति। अद्य तु योगस्य महत्तं सम्पूर्ण संसार: जानाति। यदि भवती योगं करिष्यति तर्हि सर्वाङ्गीणरूपेण स्वस्था भविष्यति। शेषं पुन: लेखिष्यामि। आशास्ति गृहे सर्वे कुशलिनः सन्ति।

भवताम् भ्राता
मान्धाता शर्मा
115/98, गौरव सरिणी, चण्डीगढ़म्

(ख) औपचारिकम् पत्रम्

(क) अवकाशार्थं प्राचार्या प्रति प्रार्थनापत्रम् लिखत।
उत्तर –

सेवायाम्
प्राचार्या! केन्द्रीय विद्यालयः रोहिणी,
दिल्ली
विषय : दिनदस्य अवकाशार्थं प्रार्थना पत्रम्
महोदये

सविनय निवेदनम् अस्ति यत् अहं भवत्याः विद्यालयस्य नवमी कक्षायाः छात्रा अस्मि। हयः मम गृहे चौरेण चौर्यकार्य कृतम्। गृहस्य सर्व धनम्, आभूषणानि पात्राणि च चोरितानि जातानि। सर्वे जनाः अतीव दु:खिनः सन्ति। गृहे सम्पूर्ण दिने सम्बन्धिनः, मित्राणि प्रतिवेशिकाश्च सान्त्वनार्थम् आगच्छान्ति। मम पितरौ अतीव दु:खिनौ स्तः। अतः भवतीना सेवायो निवेदनमस्ति यत् महयं दिनद्वयस्थ अवकाशं दत्त्वा कृतार्थयन्तु भवत्यः।

भवताम् आज्ञाकारी शिष्य:
यथार्थ प्रणवः
कक्षा – नवमी (अ)
अनुक्रमांक – 37

2. (क) भ्रातुः विवाहे गमनाय प्रार्थना-पत्रम् लिखत।
उत्तर –
सेवायाम्
प्राचार्या, केन्द्रीय विद्यालयः चमोली
विषय:- भ्रातुः विवाहे गृहं गन्तुं (गमनाय) प्रार्थना पत्रम्।
महोदये

सविनयं निवेद्यते यत् आगामि सप्ताहे मम ज्येष्ठस्य भ्रातुः विवाहः सम्पत्स्यते/वरयात्रा मम गृहात् जोशीमठे गमिष्यति। पारिवाकिर जनः भवति सति मम उपस्थितिः तत्र अनिवार्या वर्तते।
अतः भवतीनां सेवायां निवेदयामि यत् भवत्यः महयं पञ्चदिवसानाम् अवकशान् दत्त्वा कृतार्थयन्तु। एषु दिवसेषु यपि पठनस्य हानिः भविष्यति तस्याः पूरयितुम् अहं पूर्णरूपेण प्रयास करिष्यामि।

भवताम् आज्ञाकारिणी शिष्या
सरोज शरदः
कक्षा – नवमी (स)
अनुक्रमांक – 35
दिनाङ्कः – 13/07/20XX

3. (क) भवान् अविनाशः। शैक्षिकभ्रमणाय अनुमतिं व्ययार्थ धन प्रार्थयितुं च पितर प्रति मञ्जूषायाः सहायतया पत्र लिखतु।

स्वाध्याये, भवान्, प्रथमसत्रीया, शैक्षिकभ्रमणस्य, अनुमतिः, गन्तुम्, पञ्चशतरुप्यकाणि, प्रेषयन्तु, शीघ्रातिशीघ्र, प्रतीक्षायाम्

उत्तर –

छात्रावासतः
दिनाङ्क: 20/08/20XX

पूज्यपितृचणाः.
प्रणतीनां शतम्।

अत्र अहं कुशलः स्वाध्याये व्यापूतः अस्मि। आशासे भवान् अपि मात्रा सह आनन्देन निवसति। मम प्रथमसत्रीय परीक्षा सम्पन्ना। परीक्षानन्तर शिक्षकैः सह छात्राणां शैक्षिकभ्रमणस्य योजना अस्ति। यदि भवतः अनुमतिः स्यात् तर्हि अहमपि तैः सह गन्तुम् इच्छामि। सर्वैः एव गन्तुकामैः पञ्चशतरुप्यकानि देयानि सन्ति। भवतः अनुमतिः अस्ति चेत् पंचशतरूप्यकाणि शुल्काय, पंचशतरुप्यकाणि च मार्गव्ययार्थ प्रेषयन्तु भवन्तः। कृपया शीघ्रातिशीघ्रं स्वमन्तव्यं प्रकटयन् पत्र लिखतु। भवतः अनुमत्याः प्रतीक्षायाम्।

भवतः पुत्रः
अविनाशः

4. पर्वतीयसुषमाया: वर्णनं कुर्वन् स्वमित्रं नमितं प्रति सुमेशस्य पत्रम्।
उत्तर –
प्रिय मित्र नमित,
सप्रेम नमोनमः।

अत्र कुशलं, तत्र अस्तु। दिसम्बरमासे अहं परिवारेण सह कश्मीरप्रदेशम् अगच्छम्। कश्मीरप्रदेशस्य सौन्दर्यं तु दर्शकान् आकर्षयति। विविधैः फलै: युक्ता: वृक्षा: प्रकृते: सौन्दर्य वर्धन्ते एव। सर्वत्र एव हरीतिमा आसीत्। यत्र कुत्रापि दृष्टि: गच्छति तत्र प्रकृते: सुषमा एव दृश्यते स्म। कश्मीर-प्रदेशस्य डलसर: तु न सर्वेषाम् आकर्षणस्य केन्द्रः अस्ति। यदा अत्र हिमपात: भवति तस्य वर्णन कर्तुं तु कोऽपि समर्थः अस्ति। कश्मीरप्रदेश: पृथिव्या: स्वर्ग: एव। यदा भवान् अत्र आगमिष्यति तदा मम कथनस्य सत्यतां ज्ञास्यति। शेष सर्वं कुशलम्।

मातृपित्रो: चरणयो: प्रणामा:।
भवत: मित्रम्
सुमेश:

दिनाङ्क: – 28.11.2018

5. (क) दण्डशुल्कक्षमापनार्थ प्रधानाचार्य प्रति प्रार्थना-पत्रम् लिखत।
उत्तर –

परीक्षा भवनात्
दिनाङ्कः – 15/03/20xx

श्रीमन्तः प्रधानाचार्य महोदय,
ङ्केाजकीयः तरिष्ठ माध्यमिक विशालपा
राजेन्द्र नगरम्, नव दिल्ली -110005
महोदयः

सविनयं निवेदयते यत् अहं भवतां विद्यालस्य नवमी कक्षायाः छात्रोऽस्मि। हयः अहं विद्यालय बिलम्बात् आगच्छम् यतः मम द्विचाक्रिका मार्गे विकृता अभवत्। अतः विलम्बात् आगते मम कक्षाध्यापक: मां शतरुप्यकाणां दण्डेन दण्डितम् अकरोत्। मम गृहस्थ स्थिति: उत्तमा नास्ति। अतः अहं इदं शुल्क दण्डं दातुं समर्थः नास्मि। अनेन भवतां सेवायां निवेदयामि यत् माम् अनेक दण्ड शुल्केन मुक्ति प्रदाय कृतार्थयन्तु भवन्तः।

सधन्यवादम्
भवतः शिष्यः
रामानुजः

6. (क) ई-मनी’ इत्यस्य महत्त्वं वर्णयन् मातुलं प्रति पत्रं लिखत।
उत्तर –

मुम्बई नगरात्
दिनाङ्कः 22/06/20xx

समादरणीय मातुल महाभाग!
सादर प्रणामम्.

भवतः पत्रं मया अद्यैव प्राप्त। भवान् ‘ई-मनी’ इत्यस्य महत्त्वस्य विषये पृष्टवान्। अतः वदामि। ‘ई-मनी’ एका आधुनिक-धनप्रेषण-प्रणाली अस्ति। अनया प्रणाल्या विना अतिरिक्तं परिश्रमं धनं कुत्रापि प्रेषयितुं शक्यते। मातुला: महोदयाः! गृहे स्थित्वा एव जनाः अनया प्रणाल्या धन प्रेषयित्वा प्राप्य वा लाभान्विता: भविन्त। इथ भारत-सर्वकारस्य बहुप्रचारिता एका विद्या अस्ति। यस्यां समयस्य, परिश्रमस्य, करस्य च अपव्ययः न भवति। यदि भवान् अपि अस्याः प्रयोग करिष्यति तर्हि अवश्यमेव लाभान्वितः भविष्यति। मातुलान्याः चरणयोः मम प्रणामः कथनीयः।

भवतां भगिनीजायः
मोहन कुमारः

7. (क) अतिविश्वासात् हानिः इत्यधिकृत्य मित्राय मञ्जूषायाः सहायतया पत्रं लिखत।

अस्तु, पृष्टम्, कारणम्, परीक्षापरिणामः, ईदृशः, मया, अतिविश्वासः, अन्यः, सर्वम्

उत्तर –

परीक्षाभवनतः
दिनाङ्कः 02/03/20xx

प्रिय मित्र!
नमोनमः

अत्र कुशल तत्र अस्तु। भवता पृष्टम् यत् प्रथमसत्रपरीक्षायां मम परीक्षापरिणामः कीदृशः अस्ति? प्रथमसत्रपरीक्षाया मम परीक्षापरिणामः आशानुकूल: न अस्ति। अस्य कारणम् अपि मया ज्ञातम्, मम स्वोपरि अतिविश्वासः एव आसीत् यत् अहं तु सर्वम् एव जानामि। कदाचित् ईदृशः स्वोपरि विश्वासः मानवाय विनाशकारी भवति। अस्य दुष्परिणामः मया सु सोढ़ः परं कोऽपि अन्यः अस्य पात्रं न भवेत्। इति कृत्वा कथयामि। कदापि स्वोपरि अतिविश्वासः न करणीयः। शेषं सर्वम् कुशलम्। सर्वेभ्यः मम प्रणामाः।

भवतः मित्रम्

8. (क) भवान् सुमितः। मञ्जूषायां दत्तैः पदैः सह योगस्य महत्त्व वर्णयन् स्वमित्र अमितं प्रति पत्र लिखतु।

योगस्य, आगताः, प्रभावः, कार्यक्रमे, सिध्यति, प्रेरितान्. जनाःतैः.

उत्तर –

परीक्षाभवनतः
दिनाङ्कः 12/03/20xx

प्रिय मित्र अमित!
सप्रेम नमोनमः

अत्र कुशलं तत्र अस्तु। मम पिता योगदिवसे योगस्य प्रचारार्थं स्वक्षेत्रे आयोजन कृतम्। तस्मिन् कार्यक्रमे योगविद्यायां कुशलाः अनेके जनाः आगत्य स्वविचारान् प्रकटितवन्तः। एवं ते जनान् योगस्य जीवने स्वीकारार्थ प्रेरितान् अपि अकुर्वन्। योगेन किं किं सिध्यति किं किं च प्राप्यते इति अपि ते स्पष्टीकृतम्। तेषाम् उद्बोधकानां विचाराणाम् ईदृशः प्रभावः जातः येन ये अपि जनाः तत्र अगताः ते योगप्रक्रियां जीवने धारणार्थ प्रतिज्ञाम् अकुर्वन्। यदि भवान् अपि अत्र स्यात् तदा स्वयं पश्येत्। अस्तु! शेषं सर्व कुशलम्।

भवत: मित्रम्
सुमितः

9. (क) भवान् प्रथमसत्रपरीक्षावाम् उत्तमाङ्कान् प्राप्तवान् इति वर्णयन् मित्र प्रति मञ्जूषायाः सहायतया पत्र लिखतु।

समयानुसारिणीम्, सर्वम् अस्तु, अङ्काः, अनुपालनम्, पृष्टम्, कारणम्, कारणात्, परीक्षापरिणामः

उत्तर –

परीक्षाभवनतः
दिनाङ्कः 15/04/20xx

प्रिय मित्र!
नमोनमः

अत्र कुशलं तत्र सर्वम् अस्तु। भवता पृष्टम् यत् प्रथमसत्रपरीक्षायां मम परीक्षापरिणामः कीदृशः अस्ति? प्रथमसत्रपरीक्षायां मम परीक्षापरिणामः आशानुकूलः अस्ति। अस्य कारणम् एतत् अस्ति यत् मया नियमानाम् अनुपालन कृतमा खेलनस्य समये खेलनम्, पठनस्य समये पठनम् कृतम्। अस्मात् कारणात् मया परीक्षायां शोभनाः अडाः प्राप्ताः। सत्यम् एव एतत् यदि समयस्य अनुपालनम् क्रियते तदा अस्य परिणामोऽपि शोभनीयः भवति। भवान् अपि एवं समयानुसारिणीम् पालयेत्। शेष कुशलम्। सर्वेभ्यः मम प्रणामाः।

भवतः मित्रम्

10. (क) अतिवृष्टेः कारणात् विषमजीवन यापयन्तीं स्वभगिनीं प्रति पत्र लिखत।
उत्तर –

झांसी नगरात्
दिनाङ्कः 05/07/20xx

प्रिये भगिनि!
सप्रेम नमोतमः

अत्र सर्व कुशलवर्तते। दूरदर्शनेन ज्ञातं यत् सम्प्रति जोधपुर नगरे अतीव वृष्टेः कारणात् जनजीवनम् कठिन जानमस्ति। सर्वत्र जलमेव दृश्यते। मार्गेषु, भवनेषु सरणिषु च जलम् एकत्रितं जातम्। अनेकानि भवनाति ध्वस्तानि अभवन्, अनेके जनाः मृत्यु प्राप्तवन्तः। वस्तु आपूर्तिः जनानाञ्च आवागमनम् अवरुद्ध जातम्। अनेकानि वाहनानि, महार्हाणि वस्तूनि, पश्व: बालाश्च नदीषु अवहन्। अनेक सर्वत्र हाहाकारः एवास्ति।
आस्किन् विषमे समये भवन्तः सर्वे नागरिकाः कथं जीवनं यापयन्ति इति भवती लिख्यताम्। अहम् ईश्वर प्रार्थये यत् शीघ्रमेव जोधपुर वासिनां जीवन सुखमयं पूर्ववत् कुर्यात्।

भवदीयः अनुजः
प्रशान्त

Go Back To Chapters

 

Leave a Reply

Your email address will not be published.

Latest from Class 9 Sanskrit