NCERT Solutions Class 8 Sanskrit (Ruchira)
The NCERT Solutions in Sanskrit Language for Class 8 Sanskrit (Ruchira – III) Chapter – 5 कण्टकेनैव कण्टकम् has been provided here to help the students in solving the questions from this exercise.
पञ्चमः पाठः – (कण्टकेनैव कण्टकम्)
अभ्यासः
1. एकपदेन उत्तरं लिखत –
(क) व्याधस्य नाम किम् आसीत्?
उत्तर :- चञ्चलः।
(ख) चञ्चलः व्याघ्रं कुत्र दृष्टवान्?
उत्तर :- जाले।
(ग) कस्मै किमपि अकार्यं न भवति।
उत्तर :- क्षुधा-य।
(घ) बदरी-गुल्मानां पृष्ठे का निलीना आसीत्?
उत्तर :- लोमशिका।
(ङ) सर्वः किं समीहते?
उत्तर :- स्वार्थम्।
(च) नि:सहायो व्याधः किमयाचत?
उत्तर :- प्राणभिक्षाम्।
2. पूर्णवाक्येन उत्तरत
(क) चञ्चलेन वने किं कृतम्?
उत्तर :- चञ्चलेन वने जालं प्रासारयत्।
(ख) व्याघ्रस्य पिपासा कथं शान्ता अभवत्?
उत्तर :- व्याघ्रस्य पिपासा जलेन शान्ता अभवत्।
(ग) जलं पीत्वा व्याघ्रः किम् अवदत्?
उत्तर :- जलं पीत्वा व्याघ्रः अवदत्-‘साम्प्रतं अहं बुभुक्षितोऽस्मि, इदानीम् अहं त्वां खादिष्यामि।
(घ) चञ्चलः ‘मातृस्वस:!’ इति को सम्बोधितवान्?
उत्तर :- चञ्चलः लोमशिकां ‘मातृस्वसः’ इति सम्बोधितवान्।
(ङ) जाले पुनः बद्धं व्याघ्रं दृष्ट्वा व्याधः किम् अकरोत्?
उत्तर :- जाले पुनः बद्धं व्याघ्रं दृष्ट्वा व्याधः प्रसन्नः भूत्वा गृहं प्रत्यावर्तत।
3. अधोलिखितानि वाक्यानि कः/का कं/कां प्रति कथयति –
कः/का | कं/कां | |
यथा – इदानीम् अहं त्वां खादिष्यामि। | व्याघ्रः | व्याधम् |
(क) कल्याणं भवतु ते। |
__________ | __________ |
(ख) जनाः मयि स्नानं कुर्वन्ति। | __________ | __________ |
(ग) अहं त्वत्कृते धर्मम् आचरितवान् त्वया मिथ्या भणितम्। | __________ | __________ |
(घ) यत्र कुत्रापि छेदनं कुर्वन्ति। | __________ | __________ |
(ङ) सम्प्रति पुनः पुनः कूर्दनं कृत्वा दर्शय। | __________ | __________ |
उत्तर :-
कः/का | कं/कां | |
यथा – इदानीम् अहं त्वां खादिष्यामि। | व्याघ्रः | व्याधम् |
(क) कल्याणं भवतु ते। |
व्याघ्रः | व्याधम् |
(ख) जनाः मयि स्नानं कुर्वन्ति। | नदीजलम् | व्याधम् |
(ग) अहं त्वत्कृते धर्मम् आचरितवान् त्वया मिथ्या भणितम्। | व्याधः | व्याघ्रम् |
(घ) यत्र कुत्रापि छेदनं कुर्वन्ति। | वृक्षः | व्याधम् |
(ङ) सम्प्रति पुनः पुनः कूर्दनं कृत्वा दर्शय। | लोमशिका | व्याघ्रम् |
4. रेखांकित पदमाधृत्य प्रश्ननिर्माणं –
(क) व्याधः व्याघ्रं जालात् बहिः निरसारयत्।
उत्तर :- व्याधः व्याघ्र कस्मात् बहिः निरसारयत्?
(ख) चञ्चलः वृक्षम् उपगम्य अपृच्छत्।
उत्तर :- चञ्चलः कम् उपगम्य अपृच्छत्?
(ग) व्याघ्रः लोमशिकायै निखिला कथां न्यवेदयत्।
उत्तर :- व्याघ्रः कस्यै निखिला कथां न्यवेदयत्?
(घ) मानवाः वृक्षाणां छायायां विरमन्ति।
उत्तर :- मानवाः केषां छायायां विरमन्ति?
(ङ) व्याघ्रः नद्याः जलेन व्याधस्य पिपासामशमयत्।
उत्तर :- व्याघ्रः कस्याः जलेन व्याधस्य पिपासामशमयत्?
5. मञ्जूषातः पदानि चित्वा कथां पूरयत
वृद्धः | कृतवान् | अकस्मात् | दृष्ट्वा | मोचयितुम् |
साट्टहासम | क्षुद्रः | तर्हि | स्वकीयैः | कर्तनम् |
एकस्मिन् वने एकः ________ व्याघ्रः आसीत्। सः एकदा व्याधेन विस्तारिते जाले बद्धः अभवत्। सः बहुप्रयासं ________ किन्तु जालात् मुक्तः नाभवत्। ________ तत्र एकः मूषकः समागच्छत्। बद्धं व्याघ्रं ________ सः तम् अवदत्-अहो! भवान् जाले बद्धः। अहं त्वां ________ इच्छामि। तच्छ्रुत्वा व्याघ्रः ________ अवदत्-अरे ! त्वं ________ जीव: मम साहाय्यं करिष्यसि । यदि त्वं मां मोचयिष्यसि ________ अहं त्वां न हनिष्यामि। मूषकः ________ लघुदन्तैः तज्जालस्य ________ कृत्वा तं व्याघ्रं बहिः कृतवान्।
उत्तर :- एकस्मिन् वने एकः वृद्धः व्याघ्रः आसीत्। सः एकदा व्याधेन विस्तारिते जाले बद्धः अभवत्। सः बहुप्रयासं कृतवान् किन्तु जालात् मुक्तः नाभवत् । अकस्मात् तत्र एकः मूषकः समागच्छत् । बद्धं व्याघ्रं दृष्ट्वा सः तम् अवदत्-अहो! भवान् जाले बद्धः। अहं त्वां मोचयितुम् इच्छामि । तच्छ्रुत्वा व्याघ्रः साट्टहासम अवदत्-अरे ! त्वं क्षुद्रः जीवः मम साहाय्यं करिष्यसि। यदि त्वं मां मोचयिष्यसि तर्हि अहं त्वां न हनिष्यामि। मूषकः स्वकीयैः लघुदन्तैः तज्जालस्य कर्त्तनम् कृत्वा तं व्याघ्रं बहिः कृतवान्।
6. यथानिर्देशमुत्तरत
(क) सः लोमशिकायै सर्वां कथां न्यवेदयत् – अस्मिन् वाक्ये विशेषणपदं किम्।
उत्तर :- स लोमशिकायै सर्वां कथां न्यवेदयत् – अस्मिन् वाक्ये ‘सर्वाम्’ इति विशेषणपदम्।
(ख) अहं त्वत्कृते धर्मम् आचरितवान् – अत्र अहम् इति सर्वनामपदं कस्मै प्रयुक्तम्।
उत्तर :- अहं त्वत्कृते धर्मम् आचरितवान् – अत्र अहम् इति सर्वनामपदं चञ्चलाय प्रयुक्त।
(ग) ‘सर्वः स्वार्थं समीहते’, अस्मिन् वाक्ये कर्तृपदं किम्।
उत्तर :- ‘सर्वः स्वार्थं समीहते’, अस्मिन् वाक्ये कर्तृपदं भवति सर्व इति।
(घ) सा सहसा चञ्चलमुपसृत्य कथयति – वाक्यात् एकम् अव्ययपदं चित्वा लिखत।
उत्तर :- सा सहसा चञ्चलमुपसृत्य कथयति – वाक्यात् एकम् अव्ययपदं हि सहसा इति।
(ङ) ‘का वार्ता? माम् अपि विज्ञापय’ – अस्मिन् वाक्ये क्रियापदं किम्? क्रियापदस्य पदपरिचयमपि लिखतः।
उत्तर :- ‘का वार्ता? माम् अपि विज्ञापय’ – अस्मिन् वाक्ये क्रियापदं भवति विज्ञापय इति। तथाहि विपूर्वकात् भ्वादिगणीयात् ज्ञाधातोः णिचि लोटि मध्यमपुरुषैकवचने विज्ञापय इति रूपम्।
7. (अ) उदाहरणानुसारं रिक्तस्थानानि पूरयत –
एकवचनम् | द्विवचनम् | बहुवचनम् | |
यथा – मातृ (प्रथमा) | माता | मातरौ | मातरः |
स्वसृ (प्रथमा) | ________ | ________ | ________ |
मातृ (तृतीया) | मात्रा | मातृभ्याम् | मातृभिः |
स्वसृ (तृतीया) | ________ | ________ | ________ |
स्वसृ (सप्तमी) | स्वसरि | स्वस्रो: | स्वसृषु |
मातृ (सप्तमी) | ________ | ________ | ________ |
स्वसृ (षष्ठी) | स्वसुः | स्वस्रो: | स्वसणाम् |
मातृ (षष्ठी) | ________ | ________ | ________ |
उत्तर :-
एकवचनम् | द्विवचनम् | बहुवचनम् | |
यथा – मातृ (प्रथमा) | माता | मातरौ | मातरः |
स्वसृ (प्रथमा) | स्वसा | स्वसारौ | स्वसारः |
मातृ (तृतीया) | मात्रा | मातृभ्याम् | मातृभिः |
स्वसृ (तृतीया) | स्वस्रा | स्वसृभ्याम् | स्वसृभिः |
स्वसृ (सप्तमी) | स्वसरि | स्वस्रो: | स्वसृषु |
मातृ (सप्तमी) | मातरि | मात्रोः | मातृषु |
स्वसृ (षष्ठी) | स्वसुः | स्वस्रो: | स्वसणाम् |
मातृ (षष्ठी) | मातुः | मात्रोः | मातॄणाम् |
(आ) धातुं प्रत्ययं च लिखत –
. पदानि = धातुः + प्रत्ययः
यथा- गन्तम = गम् + तुमुन्
द्रष्टुम् = ________ + ________
करणीय = ________ + ________
पातुम् = ________ + ________
खादितुम् = ________ + ________
कृत्वा = ________ + ________
उत्तर :-
द्रष्टुम् = दृश् + तुमुन्
करणीय = कृ + अनियर्
पातुम् = पा + तुमुन्
खादितुम् = खाद् + तुमुन्
कृत्वा = कृ + क्त्वा