NCERT Solutions Class 7 Sanskrit (Ruchira) Chapter 5 पण्डिता रमाबाई

NCERT Solutions Class 7 Sanskrit (Ruchira)

The NCERT Solutions in Sanskrit Language for Class 7 Sanskrit (Ruchira) Chapter – 5 पण्डिता रमाबाई has been provided here to help the students in solving the questions from this exercise.

पंचमः पाठः – (सुभाषितानि)

अभ्यासः

1. एकपदेन उत्तरत- 

(क) ‘पण्डिता’ ‘सरस्वती’ इति उपाधिभ्यां का विभूषिता?
उत्तर : – ‘पण्डिता’ ‘सरस्वती’ इति उपाधिभ्यां पंडिता रमाबाई विभूषिता।

(ख) रमा कुतः संस्कृतशिक्षा प्राप्तवती? 
उत्तर : – रमा स्वमातुः संस्कृतशिक्षां प्राप्तवती।

(ग) रमाबाई केन सह विवाहम् अकरोत् ?
उत्तर : – रमाबाई विपिनबिहारीदासेन सह विवाहम् अकरोत्।

(घ) कासां शिक्षायै रमाबाई स्वकीयं जीवनम् अर्पितवती?
उत्तर : – नारीणां शिक्षायै रमाबाई स्वकीयं जीवनम् अर्पितवती।

(ङ) रमाबाई उच्चशिक्षार्थं कुत्र अगच्छत् ?
उत्तर : – रमाबाई उच्चशिक्षार्थं इंग्लैण्डदेशं आगच्छत्।

2. रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

(क) रमायाः पिता समाजस्य प्रतारणाम् असहत।
उत्तर : – कस्याः पिता समाजस्य प्रतारणाम् असहत?

(ख) पत्युः मरणानन्तरं रमाबाई महाराष्ट्र प्रत्यागच्छत्।
उत्तर : – कस्य मरणानन्तरं रमाबाई महाराष्ट्र प्रत्यागच्छत् ?

(ग) रमाबाई मुम्बईनगरे ‘शारदा-सदनम्’ अस्थापयत्।
उत्तर : – रमाबाई कुत्र ‘शारदा-सदनम्’ अस्थापयत् ?

(घ) 1922 तमे ख्रिष्टाब्दे रमाबाई-महोदयायाः निधनम् अभवत्।
उत्तर : – 1922 तमे ख्रिष्टाब्दे कस्याः निधनम् अभवत् ?

(ङ) स्त्रियः शिक्षां लभन्ते स्म।
उत्तर : – काः शिक्षां लभन्ते स्म?

3. प्रश्नानामुत्तराणि लिखत-

(क) रमाबाई किमर्थम् आन्दोलनं प्रारब्धवती?
उत्तर : – रमाबाई स्त्रीणां कृते वेदादीनां शास्त्राणां शिक्षायै आन्दोलनं प्रारब्धवती।

(ख) निस्सहायाः स्त्रियः आश्रमे किं लभन्ते स्म?
उत्तर : – निःसहायाः स्त्रियः आश्रमे मुद्रण-टंकण-काष्ठकलादीनाञ्च लभन्ते स्म।

(ग) कस्मिन् विषये रमाबाई-महोदयायाः योगदानम् अस्ति? ।
उत्तर : – लेखनक्षेत्र-विषये रमाबाई-महोदयायाः योगदानम् अस्ति।

(घ) केन रचनाद्वयेन रमाबाई प्रशंसिता वर्तते?
उत्तर : – ‘स्त्रीधर्म नीति’ ‘हाई कास्ट हिन्दू विमेन’ इति रचनाद्वयेन रमाबाई प्रशंसिता वर्तते ।

4. अधोलिखितानां पदानां निर्देशानुसारं पदपरिचयं लिखत-

पदानि मूलशब्दः लिङ्गम् विभक्तिः वचनम्
यथा – वेदानाम् वेद पुँल्लिङ्गम् षष्ठी बहुवचनम्
पिता
शिक्षायै
कन्याः
नारीणाम्
मनोरमया

उत्तर : –

पदानि मूलशब्दः लिङ्गम् विभक्तिः वचनम्
यथा – वेदानाम् वेद पुँल्लिङ्गम् षष्ठी बहुवचनम्
पिता पितृ पुँल्लिङ्गम् प्रथमा एकवचनम्
शिक्षायै शिक्षा स्त्रीलिङ्गम् चतुर्थी एकवचनम्
कन्याः कन्या स्त्रीलिङ्गम् प्रथमा बहुवचनम्‌
नारीणाम् नारी स्त्रीलिङ्गम् षष्ठी बहुवचनम्‌
मनोरमया मनोरमा स्त्रीलिङ्गम् तृतीया एकवचनम्

5. अधोलिखितानां धातूनां लकारं पुरुषं वचनञ्च लिखत-

धातुः लकार: पुरुष: वचनम्
यथा- आसीत् अस् लङ् प्रथमपुरुषः एकवचनम्
कुर्वन्ति
आगच्छत्
निवसन्ति
गमिष्यति
अकरोत्

उत्तर : –

धातुः लकार: पुरुष: वचनम्
यथा- आसीत् अस् लङ् प्रथमपुरुषः एकवचनम्
कुर्वन्ति कृ लट् प्रथमपुरुषः बहुवचनम्‌
आगच्छत् गम् लङ् प्रथमपुरुषः एकवचनम्
निवसन्ति वस लट् प्रथमपुरुषः बहुवचनम्‌
गमिष्यति गम् लट् प्रथमपुरुषः एकवचनम्
अकरोत् कृ लङ् प्रथमपुरुषः एकवचनम्

6. अधोलिखितानि वाक्यानि घटनाक्रमानुसारं लिखत।

(क) रमाबाई-महोदयायाः विपिनबिहारीदासेन सह विवाहः अभवत्।
उत्तर : – 1858 तमे ख्रिष्टाब्दे रमाबाई जन्म अलभत।

(ख) 1858 तमे ख्रिष्टाब्दे रमाबाई जन्म अलभत।
उत्तर : – सा स्वमातुः संस्कृतशिक्षा प्राप्तवती।

(ग) सा उच्चशिक्षार्थम् इंग्लैण्डदेशं गतवती।
उत्तर : – रमाबाई-महोदयायाः विपिनबिहारीदासेन सह विवाहः अभवत् ।

(घ) 1922 तमे ख्रिष्टाब्दे रमाबाई-महोदयायाः निधनम् अभवत्।
उत्तर : – सा उच्चशिक्षार्थम् इंग्लैण्डदेशं गतवती।

(ङ) सा मुम्बईनगरे शारदा-सदनम् अस्थापयत्।
उत्तर : – सा मुम्बईनगरे शारदा-सदनम् अस्थापयत्।

(च) सा स्वमातुः संस्कृतशिक्षा प्राप्तवती।
उत्तर : – 1922 तमे ख्रिष्टाब्दे रमाबाई-महोदयायाः निधनम् अभवत्।

NCERT Class 7th Solution 
NCERT Solutions Class 7 English
NCERT Solutions Class 7 Hindi
NCERT Solutions Class 7 Mathematics 
NCERT Solutions Class 7 Sanskrit
NCERT Solutions Class 7 Science
NCERT Solutions Class 7 Social Science

 

Leave a Reply

Your email address will not be published.

Latest from Class 7 Sanskrit