NCERT Solutions Class 10 Sanskrit (Abhyaswaan Bhav)
The NCERT Solutions in Sanskrit Language for Class 10 Sanskrit (Abhyaswaan Bhav – अभ्यासवान् भव – II) Chapter – 13 मिश्रिताभ्यासः has been provided here to help the students in solving the questions from this exercise.
अध्याय 13 – मिश्रिताभ्यासः
अभ्यासः I |
1. अधोलिखितम् अनुच्छेदं पठित्वा प्रश्नान् उत्तरत-
पठनम् अतीव अरुचिकरं मन्यमानः सुवीरः हतोत्साहः भूत्वा कक्षस्य एकस्मिन् कोणे विचारमग्नः अतिष्ठत्। तस्य मनसि असफलतायाः कारणात् आत्मघातस्य भावना जागृता। दुःखितः भूत्वा आत्मचिन्तनं कुर्वन् सः भित्तिम् आरोहन्तम् एकं पिपीलकं पश्यति, यः पुनः पुनः पतित्वा अपि हतोत्साहितः न भवति, अपितु सततं प्रयासेन सः अन्नतः भित्तिम् आरोहति तत्रस्थं मिष्टान्नं च प्राप्नोति। तस्य विवेको जागृतो भवति। आत्मनः आत्मघातस्य भावनां निन्दयन् सः चिन्तयति यत् यद्येष पिपीलक: सततप्रयासेन सफल: भवितुं शक्नोति तर्हि न किमपि असम्भवं जगति। एतद्विचिन्त्य सः पठनस्य पुनः पुनरभ्यासं कुर्वन् कक्षायां विशिष्टं स्थान प्राप्तवान्। तस्मिन् एतत् परिवर्तनं दृष्ट्वा शिक्षकः तस्य प्रशंसां कुर्वन् बोधयति-“वत्स! वीरभोग्या वसुन्धरा। वसुधायां बहूनि वस्तूनि सन्ति परन्तु परिश्रमशीलाः वीराः एव तानि प्राप्नुवन्ति।”
अभ्यासः |
(i) एकपदेन उत्तरत-
(क) कः हतोत्साहः अभवत्?
उत्तर – सुवीरः
(ख) असफलतायाः कारणात् सुवीरस्य मनसि कस्य भावना जागृता?
उत्तर – आत्मघातस्य
(ग) पिपीलकः भित्तौ किं प्राप्नोति?
उत्तर – मिष्टान्नम्
(घ) सुवीरः पुनः पुनरभ्यासेन किं स्थान प्राप्तवान्?
उत्तर – विशिष्टम्
(ii) पूर्णवाक्येन उत्तरत-
(क) सुवीरः आत्मघातस्य भावनां निन्दयन् किं चिन्तयति?
उत्तर – सुवीरः आत्मघातस्य भावनां निन्दयन् सः चिन्तयति यत् यद्येष पिपीलकः सततप्रयासेन सफलः भवितुं शक्तनोति तर्हि न किमपि असम्भवं जगति।
(ख) के वसुधायां वसूनि प्राप्नुवन्ति?
उत्तर – परिश्रमशीलाः वीराः वसुधायां वसूनि प्राप्नुवन्ति।
(iii) यथानिर्देशम् उत्तरत-
(क) ‘स: अन्ततः भित्तिम् आरोहति’-अत्र किम् अव्यय-पदम्?
उत्तर – अन्ततः
(ख) ‘संसारे’ इति पदस्य किं समानार्थकपदम् अनुच्छेदे प्रयुक्तम्?
उत्तर – वसुधायाम्
(ग) ‘तस्य विवेकः जागृतः अभवत्’-अत्र किं कर्तृपदम्?
उत्तर – विवेकः
(घ) ‘वसुधायां बहूनि वसूनि सन्ति’ – अत्र किं विशेषणपदम्?
उत्तर – बहूनि
2. ‘आत्मघातः कस्याः अपि समस्यायाः समाधानं न भवति’ एतद्विषयम् अधिकृत्य एकम् लघुम् अनुच्छेद लिखत-
उत्तर – आत्मघातः एकः अपराधः वर्तते। इमम् अपराधं कुर्वन् मानवः अतीव कष्टम् अनुभवति। यः जनः संसारस्य समस्यायाः समाधानं न विचिन्त्य आत्मघातं करोति सः तस्य च परिवारिकाः जनाः कदापि सम्मानं न लभन्ते। तस्य मृत्योः पश्चादपि सा समस्या तथैव तिष्ठति अपितु तस्याः रूपम् अतीव कष्टकर भवति। अतः कदापि आत्मघातं न कृत्वा समस्यायाः समाधानं कुर्यात्।
3. ‘पठनस्य के लाभाः’ – इति वर्णनं कुर्वन्तः मित्रं प्रति पत्रमेकं लिखत-
उत्तर –
छात्रावासः
सरस्वती शिशु मंदिर, देहरादून नगरम्
उत्तराखंड:
दिनांक : _________
सेवायाम्
प्रिय मित्र यथार्थ प्रणव!
सप्रेम नमः।
अत्र कुशलं तत्रास्तु। भवतः पत्रम् अद्यैव प्राप्तम्। पत्रेण ज्ञातं यत् गतेषु षण्मासेषु भवतः मनः पठने न उपतिष्ठति। अनेन कारणेन षण्मासिकी परीक्षायां भवान् उत्तमानि अकानि न प्राप्नोत्। मित्रवर! पठनं तु मानवानां धनं उन्नते: च सोपानं वर्तते। अनेन जीवने प्रसन्नता प्रसिद्धिः आनन्दं च सर्वां प्राप्नुवन्ति। अतः ईश्वरं सम्पूज्य रुचिपूर्वकं भवान् पठतु। तदैव भविष्यः कल्याणकारी भविष्यति।
शुभकामनाभिः सह
तव मित्रं
राम:
4. सन्धिच्छेदः सन्धिः वा क्रियताम्-
(i) हतोत्साहः = _________ + _________
(ii) विवेकः + जागृतः = _________
(iii) सः + अन्ततः = _________
(iv) एतद्विचिन्त्य = _________ + _________
उत्तर –
(i) हतोत्साहः = हत + उत्साहः
(ii) विवेकः + जागृतः = विवेकोजागृतः
(iii) सः + अन्ततः = सोऽन्ततः
(iv) एतद्विचिन्त्य = एतत् + विचिन्त्य
5. समासं विग्रहं वा कृत्वा वाक्यानि पुनः लिखत-
(i) सुवीरः हतः उत्साहः यस्य सः भूत्वा एकस्मिन् कोणे तिष्ठति।
उत्तर – सुवीरः हतोत्साहः भूत्वा एकस्मिन् कोणे तिष्ठति।
(ii) तस्य मनसि आत्मघातस्य भावना जागृता।
उत्तर – तस्य मनसि आत्मन:घातस्य भावना जागृता।
(iii) सः अभ्यासं कुर्वन् कक्षायां विशिष्टं स्थान प्राप्तवान्।
उत्तर – सः अभ्यासं कुर्वन् कक्षायां विशिष्टस्थान प्राप्तवान्।
(iv) वत्स! वीरैः भोग्या वसुन्धरा।
उत्तर – वत्स! वीरभोग्या वसुन्धरा।
6. उचित-प्रत्ययप्रयोगेण रिक्तस्थानानि पूरयत-
(i) पठनम् अरुचिकरं _________ (मन् + शानच्) छात्राः सफलाः न भवन्ति।
(ii) सततप्रयासेन मन्दोऽपि सफलः _________ (भू + तुमुन्) शक्नोति।
(iii) अस्मिन् वर्षे अहम् कक्षायां विशिष्टं स्थानं _________। (प्र + आप् + क्तवतु)
(iv) पुनः पुनः पतित्वा अपि हतोत्सहितः न _________। (भू + तव्यत्)
उत्तर –
(i) पठनम् अरुचिकरं मन्यमानाः छात्राः सफलाः न भवन्ति।
(ii) सततप्रयासेन मन्दोऽपि सफलः भवितुं शक्नोति।
(iii) अस्मिन् वर्षे अहम् कक्षायां विशिष्टं स्थानं प्राप्तवान्।
(iv) पुनः पुनः पतित्वा अपि हतोत्सहितः न भवितव्यः।
7. प्रदत्तवाक्यानां वाच्यपरिवर्तनम् कृत्वा लिखत-
(i) सुवीरः एकस्मिन् कोणे तिष्ठति।
उत्तर – सुवीरेण एकस्मिन् कोणे स्थीयते।
(ii) पिपीलक: अन्ततः भित्तिम् आरोहति।
उत्तर – पिपीलकेन अन्ततः भित्तिः आरुह्यते।
(iii) शिक्षकेण तस्य प्रशंसा क्रियते।
उत्तर – शिक्षक: तस्य प्रशंसां करोति।
(iv) परिश्रमशीलैः वीरैः एव वसूनि प्राप्यन्ते।
उत्तर – परिश्रमशीला: वीराः एव वसूनि प्राप्नुवन्ति।
8. प्रदत्तवाक्यानां संस्कृतभाषया अनुवादं कुरुत-
(i) उसका विवेक जागृत हो जाता है।
उत्तर – तस्य विवेको जागृतो भवति।
(ii) उसने वृक्ष पर चढ़ते हुए साँप को देखा।
उत्तर – सः वृक्षम् आरोहन्तम् सर्पम् अपश्यत्।
(iii) हमें पुनः पुनः पाठों का अभ्यास करना चाहिए।
उत्तर – वयं पुनः पुनः पाठानामभ्यासं कुर्याम।
(iv) मुझे पढ़ना अच्छा लगता है।
उत्तर – मह्यं पठनं रोचते।
9. प्रदत्तानि वाक्यानि शुद्धानि कृत्वा पुनः लिखत-
(i) बालकः एकस्मिन् कोणे तिष्ठति।
उत्तर – बालकः एकं कोणम् उपतिष्ठति।
(ii) सः भित्तिम् आरोहन्तं पिपीलकं पश्यति।
उत्तर – सः भित्तिम् आरोहन्तं पिपीलकम् अपश्यत्।
(iii) वसुधायां बहूनि वसूनि सन्ति।
उत्तर – वसुधायां बहवः वसवः सन्ति।
(iv) अहम् उत्साहितः भूत्वा तत्रागच्छम्।
उत्तर – अहम् उत्साहितो भूत्वा तत्र अगच्छम्।
अभ्यासः II |
1. लिखितमनुच्छेदं पठित्वा निर्देशानुसारं प्रश्नान् उत्तरत-
वयं सर्वे सुखम् इच्छामः। कोऽपि दु:खं नैव इच्छति। अतः दुःखानां विनाशं कथं भवति, इति ज्ञातव्यम्। गीतायाम् अर्जुनं प्रति श्रीकृष्णः अकथयत्, “प्रसादे सर्वदुःखानां हानिरस्योपजायते।” अतः सर्वेषां दु:खानाम् अभावस्य कृते मनसः प्रसन्नता अत्यावश्यकी वर्तते। विपरीतपरिस्थितिषु ये धैर्यं न त्यजन्ति ते सर्वदा आन्तरिक-प्रसन्नतायाः माध्यमेन प्रतिकूलपरिस्थिती: विरुध्य विजयम् अधिगच्छन्ति। प्रियजनस्य रुग्णतायां ये सेवां कृत्वा प्रसन्नाः भवन्ति ते न केवलम् प्रियजनस्य दुःखस्य अपितु स्वदुःखस्य अपि विनाशं कृत्वा भूयोऽपि प्रसन्नाः भवन्ति, परन्तु ये आत्मनः परस्य वा रोगं, समस्यां वा दृष्ट्वा केवलं हाहाकारं कुर्वन्ति तेषां दुःखेषु वृद्धिः एव भवति। अतः विषादः कदापि न कर्तव्यः प्रसन्नता च कदापि न त्याज्या।
(i) एकपदेन उत्तरत-
(क) प्रसादे केषां हानिः भवति?
उत्तर – सर्वदुःखानाम्
(ख) ये समस्यायां प्राप्तायां केवलं हाहाकारं कुर्वन्ति तेषां दुःखेषु किं भवति?
उत्तर – वृद्धिः
(ii) पूर्णवाक्येन उत्तरत-
(क) प्रतिकूलपरिस्थिती: विरुध्य के विजयम् अधिगच्छन्ति?
उत्तर – विपरीत परिस्थितिषु ये धैर्यं न त्यजन्ति ते सर्वदा आन्तरिक-प्रसन्नतायाः माध्ययेन प्रतिकूल परिस्थिती: विरुध्य विजयम् अधिगच्छन्ति।
(ख) किं कदापि न कर्तव्यं किम् च न त्याज्यम्?
उत्तर – विषादः कदापि न कर्तव्यः प्रसन्नता च कदापि न त्याज्या।
(iii) निर्देशानुसारम् उत्तरत-
(क) ‘पराजयम्’ इति पदस्य किं विलोमपदं गद्यांशे प्रयुक्तम्?
उत्तर – विजयम्
(ख) ‘तेषाम् दुःखेषु वृद्धिः भवति’ इति वाक्यांशे ‘भवति’ इति क्रियापदस्य कर्तृपदं किम् अस्ति?
उत्तर – वृद्धिः
(ग) ‘सर्वेषाम्’ इति सर्वनामपदम् अत्र कस्मै प्रयुक्तम्?
उत्तर – दु:खेभ्यः
(घ) ‘स्वस्य’ इति पदस्य किं पर्यायपदम् अत्र आगतम्?
उत्तर – आत्मनः
(iv) गद्यांशस्य कृते समुचितं शीर्षकं लिखत।
उत्तर – सुखस्य महिमा / प्रसन्नतायाः महत्त्वम्
2. प्रसन्नतायाः महत्त्वविषये पञ्चवाक्यमितम् अनुच्छेदं सरलसंस्कृतेन लिखत-
उत्तर – प्रसन्नता जनानां सुखस्य कारणमस्ति। अनया जनाः सुस्वास्थ्य, धनधान्यं कीर्तिञ्च प्राप्नुवन्ति। जीवने दुःखस्य मूलकारणम् क्रोधः कोपश्च वर्तेते। प्रसन्नः जनः कदापि परनिन्दा स्वार्थ परकानि कार्याणि न कृत्वा सदैव परोपकारमेव करोति। अनेन तस्य जीवने ऐश्वर्यस्य आनन्दस्य च वृद्धिः जायते। अतः जनाः कदापि स्वजीवने अहंकारं स्वार्थपरकानि कर्मणि न कुर्युः। केवलं परोपकारम् कृत्वा एव जनैः स्वजीवनलक्ष्यं प्राप्तव्यम्।
3. गृहे पितुः रुग्णतायाः कारणेन भवतः/भवत्याः मित्रम् दुःखितः अस्ति। तं सान्त्वयन् पत्रमेकं सरलसंस्कृतेन लिखत-
उत्तर –
5/15, ओमालयम्
वजीरपुरम्, नई दिल्ली
तिथि : _________
सेवायाम्,
प्रिय मित्र आनन्द!
सप्रेम नमस्ते।
अद्य भवतः पत्रं प्राप्तम्। ज्ञात्वा दुःखम् अभवत् यत् सम्प्रति भवतः पितुः स्वास्थ्यं उत्तमं नास्ति। तस्य हृदये पीड़ा रक्ते च अतीव शर्करा स्तः। भवता चिन्ता न कर्तव्या। भवान् उत्तमेन चिकित्सकेन तस्य चिकित्सां कारयतु। आयुषः अपि प्रभावो भवति। माम् आशा अस्ति यत् सः शीघ्र स्वस्थो भविष्यति। मम योग्या सेवा अपि लिखतु भवान्।
शुभकामनाभिः सह
तव मित्र
अपूर्वः कौशलः
4. अधोलिखितवाक्येषु रेखांकितपदानि अधिकृत्य सन्धिं/सन्धिविच्छेदं कुरुत-
(i) हाहाकारेण तु दु:खेषु वृद्धिः + एव भवति। _________
(ii) मनसः प्रसन्नता तु अत्यावश्यकी। _________ + _________
(iii) कः + अपि दु:खं नैव इच्छति। _________
(iv) विषादः कदापि न कर्तव्यः। _________ + _________
(v) वृद्धानां सेवां कृत्वा प्रसन्नो भव। _________ + _________
(vi) वयं सर्वे सुखम् + इच्छामः। _________
उत्तर –
(i) हाहाकारेण तु दु:खेषु वृद्धिः + एव भवति। वृद्धिरेव
(ii) मनसः प्रसन्नता तु अत्यावश्यकी। अति + आवश्यकी
(iii) कः + अपि दु:खं नैव इच्छति। कोऽपि
(iv) विषादः कदापि न कर्तव्यः। कदा + अपि
(v) वृद्धानां सेवां कृत्वा प्रसन्नो भव। सेवाम् + कृत्वा
(vi) वयं सर्वे सुखम् + इच्छामः। सुखमिच्छामः
5. रेखांकितपदानां समस्तपदं विग्रहं वा कृत्वा वाक्यानि पुनः लिखत-
(i) दुःखानां विनाशः कथं भवति इति ज्ञातव्यम्।
उत्तर – दु:खविनाशः कथं भवति इति ज्ञातव्यम्।
(ii) नीतिषु लाभालाभौ न विचारणीयौ।
उत्तर – नीतिषु लाभः च अलाभः च न विचारणीयौ।
(iii) दुखानाम् अभावः मनसः प्रसन्नतायै आवश्यकः।
उत्तर – निर्दु:खं मनसः प्रसन्नतायै आवश्यकः।
6. उचितप्रत्ययप्रयोगेण रिक्तस्थानानि पूरयत-
(i) दु:खानां विनाशस्य उपायं ज्ञा + तव्यत्। _________
(ii) प्रियजनस्य रुग्णता दुःखदायिका। _________+ _________
(iii) रोगं दृष्ट्वा केवलं हाहाकारं न कर्तव्यम्। _________ +_________
(iv) त्वं प्रतिकूलपरिस्थिती वि + रुध् + ल्यप् विजयं प्राप्नुहि। _________
उत्तर –
(i) दु:खानां विनाशस्य उपायं ज्ञा + तव्यत्। ज्ञातव्यम्
(ii) प्रियजनस्य रुग्णता दुःखदायिका। रुग्ण + तल्
(iii) रोगं दृष्ट्वा केवलं हाहाकारं न कर्तव्यम्। दृश् + क्त्वा
(iv) त्वं प्रतिकूलपरिस्थिती वि + रुध् + ल्यप् विजयं प्राप्नुहि। विरुद्ध्य।
7. प्रदत्तवाक्यानां वाच्यपरिवर्तनं कृत्वा लिखत-
(i) गीतायां श्रीकृष्णः अर्जुनं प्रति कथयति।
उत्तर – गीतायां श्रीकृष्णेन अर्जुनं प्रति कथ्यते।
(ii) वयं सर्वे सुखम् इच्छामः।
उत्तर – अस्माभिः सर्वैः सुखम् इष्यते।
(iii) विनम्रजनः पितरं सेवते।
उत्तर – विनम्रजनेन पिता सेव्यते।
(iv) पुत्रेण औषधिना पितुः रोगविनाशस्य प्रयत्नं क्रियते।
उत्तर – पुत्रः औषधिना पितुः रोगविनाशस्य प्रयत्नं करोति।
8. प्रदत्तवाक्यानां संस्कृतभाषया अनुवादं कुरुत-
(i) हम सभी सुख चाहते हैं।
उत्तर – वयं सर्वे सुखम् इच्छामः।
(ii) मन की प्रसन्नता कभी नहीं छोड़नी चाहिए।
उत्तर – मनसः प्रसन्नता कदापि न त्यक्तव्या/त्यजेत्।
(iii) गीता में श्रीकृष्ण ने अर्जुन से कहा।
उत्तर – गीतायां श्रीकृष्णः अर्जुनम् अवदत्।
(iv) वह प्रियजन की रुग्णता (बीमारी) में सेवा करके प्रसन्न होता है।
उत्तर – सः प्रियजनस्य रुग्णतायां सेवां कृत्वा प्रसीदति।
9. प्रदत्तानि वाक्यानि शुद्धानि कृत्वा पुनः लिखत-
(i) मूर्खाः जनाः दु:खं दृष्ट्वा केवलं हाहाकारं करोति।
उत्तर – मूर्खाः जनाः दुःखं दृष्ट्वा केवलं हाहाकारं कुर्वन्ति।
(ii) दु:खानाम् अभावस्य कृते मनसः प्रसन्नता अत्यावश्यकी वर्तते।
उत्तर – दुःखानाम् अभावाय मनसः प्रसन्नता अत्यावश्यकी वर्तते।
(iii) रोगं समस्यां वा दृष्ट्वा तस्य समाधानं कुरु।
उत्तर – रोगं समस्यां वा दृष्ट्वा तेषां समाधानं कुर्यात्।
(iv) विषाद: कदापि न कर्तव्यः।
उत्तर – विषादः कदापि न कुर्यात्।