निर्देशः – अधोलिखितं गद्यांशं पठित्वा (131 – 134) पर्यन्तं प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत ।
युज् – धातोः घञि प्रत्यये कृते योगशब्दो निष्पन्नो भवति । परमात्मना सह आत्मनः सम्मिलनमेव योगः । योगस्य अष्टौ अंगानि सन्ति। योगशिक्षणस्य अनिवार्यता सर्वेषां कृते उपयोगिनी भवति। योगेन स्वास्थ्यं समीचीनं भवति । योगस्य आवश्यकता शिक्षायाम् अनिवार्यरूपेण भवेत् येन च सर्वेषां स्वास्थ्यं समीचीनं जायेत । विश्वस्मिन् जगति योगदिवसस्य आयोजनं जूनमासस्य ( 21 ) एकविंशति- तारिकायाम् आयोज्यते।
131. ‘योग’ शब्दे कः प्रत्ययो अस्ति ?
(A) अच्प्रत्ययः
(B) णिच्प्रत्ययः
(C) घञ्प्रत्ययः
(D) एकाधिकविकल्पा उपयुक्ताः
(E) न कोऽपि उपयुक्तः
Show Answer/Hide
132. योगेन को लाभो जायते ?
(A) अल्पलाभः
(B) सुखप्रदायकः
(C) स्वास्थ्यं समीचीनम्
(D) एकाधिकविकल्पा उपयुक्ताः
(E) न कोऽपि उपयुक्तः
Show Answer/Hide
133. ‘योगदिवसस्य’ आयोजनं कदा भवति ?
(A) फरवरीमासे
(B) मार्चमासे
(C) जूनमासे
(D) एकाधिकविकल्पा उपयुक्ताः
(E) न कोऽपि उपयुक्तः
Show Answer/Hide
134. योगो भवति निर्देशः
(A) दुःखप्रदायकः
(B) सुखप्रदायकः
(C) परमात्मना सह आत्मसम्मिलनम्
(D) एकाधिकविकल्पा उपयुक्ताः
(E) न कोऽपि उपयुक्तः
Show Answer/Hide
निर्देशः – अधोलिखितं गद्यांशं पठित्वा ( 135 – 141 ) पर्यन्तं प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत।
संस्कृतवाङ्मये जीवनदर्शनं प्रतिपदं द्रष्टुं शक्यते । साधव एव परोपकारिणो भवन्ति । जिजीविषा न केवलं मानवेषु लभ्यते, सा तु सकलेष्वपि जीवेषु संदृश्यते । मानवजीवनस्य विश्लेषणं दर्शनेनैव भवति । वस्तुतः जीवनं तु परोपकारिणामेव प्रशस्यतरं भवति । स्वार्थपराणां जीवनं जीवनं न मन्यते जगति। संस्कृतवाङ्मये धर्म-अर्थ-काम- मोक्ष इति पुरुषार्थचतुष्टयं वर्णितमस्ति । अधुना संसारे सर्वत्र कलहमयं वातावरणं दृश्यते च परस्परं युयुत्सा। मात्स्यन्यायेन जीवितुम् इच्छन्ति केचन । वस्तुतः ‘वसुधैव कुटुम्बकम्’ इत्यस्य परिपालनेनैव सर्वत्र शांति संभवितुं शक्यते इति अस्माकं सर्वेषां चिन्तनं भवेत्।
135. परोपकारिणो जना के भवन्ति ?
(A) असाधवः
(B) अल्पमतयः
(C) साधवः
(D) एकाधिकविकल्पा उपयुक्ताः
(E) न कोऽपि उपयुक्तः
Show Answer/Hide
136. सर्वेषु अपि जीवेषु किं दृश्यते ?
(A) चिकीर्षा
(B) बुभुक्षा
(C) जिजीविषा
(D) एकाधिकविकल्पा उपयुक्ताः
(E) न कोऽपि उपयुक्तः
Show Answer/Hide
137. केषां जीवनं श्रेष्ठं भवति ?
(A) धनिकजनानाम्
(B) विदुषाम्
(C) परोपकारिणाम्
(D) एकाधिकविकल्पा उपयुक्ताः
(E) न कोऽपि उपयुक्तः
Show Answer/Hide
138. पुरुषार्थाः कतिविधाः भवन्ति?
(A) पञ्च
(B) षड्
(C) चत्वारः
(D) एकाधिकविकल्पा उपयुक्ताः
(E) न कोऽपि उपयुक्तः
Show Answer/Hide
139. अधुना संसारे वातावरणं दृश्यते
(A) सौहार्दपूर्णम्
(B) सांमनस्यम्
(C) कलहमयम्
(D) एकाधिकविकल्पा उपयुक्ताः
(E) न कोऽपि उपयुक्तः
Show Answer/Hide
140. मानवजीवनस्य साफल्यं केन उपायेन भवितुं शक्यते?
(A) धनेन
(B) बलेन
(C) दर्शनेन
(D) एकाधिकविकल्पा उपयुक्ताः
(E) न कोऽपि उपयुक्तः
Show Answer/Hide
141. अधुना कथं जीवितुम् इच्छन्ति सर्वे?
(A) शान्त्या
(B) भक्त्या
(C) मात्स्यन्यायेन
(D) एकाधिकविकल्पा उपयुक्ताः
(E) न कोऽपि उपयुक्तः
Show Answer/Hide
निर्देशः —अधोलिखितं गद्यांशं पठित्वा (142-150) पर्यन्तं प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत ।
संस्कृतभाषेयं देववाणी अस्ति । अस्यामेव भाषायां विश्वस्य विश्वधर्मश्व प्राचीनतमाः ग्रन्थाः वेदाः उपलभ्यन्ते। वेदेषु राष्ट्रधर्मो विस्तरेण प्रतिपादितोऽस्ति । अथर्ववेदे प्रजातान्त्रिकस्य राज्यस्य उल्लेखः प्राप्यते । ज्ञानमार्गेण च अमृतत्त्वं प्राप्तुं शक्यते। देशे समाजे च उच्च-नीचत्वभावनां विहाय एव सर्वविधा उन्नतिः कर्तुं शक्यते । परोपकारेण एव पुण्यफलावाप्तिः। परपीडनेन च पापम् एव । बौद्ध-महाकविः अश्वघोषः बौद्धजनप्रियां प्राकृतभाषां परित्यज्य ‘बुद्धचरितम्’ संस्कृते एव व्यरचयत् । जर्मनीदेशे सर्वेषु पुस्तकालयेषु इन्डोलाजी (Indology) भारतीयविद्या-सम्बद्धः प्रकोष्ठोऽस्ति । सर्वेऽपि पृथिवीपुत्रा नीरोगा बलिनश्च स्युः इति वयं सर्वेऽपि कामयामहे ।
142. विश्वस्य प्राचीनतमा भाषा का अस्ति?
(A) प्राकृतम्
(B) तमिलम्
(C) संस्कृतम्
(D) एकाधिकविकल्पा उपयुक्ताः
(E) न कोऽपि उपयुक्तः
Show Answer/Hide
143. राष्ट्रधर्मस्य विशदं विवेचनं लभ्यते
(A) आरण्यकग्रन्थेषु
(B) ब्राह्मणग्रन्थेषु
(C) वेदेषु
(D) एकाधिकविकल्पा उपयुक्ताः
(E) न कोऽपि उपयुक्तः
Show Answer/Hide
144. अथर्ववेदे कस्य राज्यस्य उल्लेखः प्राप्यते ?
(A) गणतन्त्रस्य
(B) एकराट्रराज्यस्य
(C) प्रजातान्त्रिकस्य
(D) एकाधिकविकल्पा उपयुक्ताः
(E) न कोऽपि उपयुक्तः
Show Answer/Hide
145. ‘अमृतत्त्वम्’ केन उपायेन उपलभ्यते ?
(A) कर्मणा
(B) त्यागेन
(C) ज्ञानमार्गेण
(D) एकाधिकविकल्पा उपयुक्ताः
(E) न कोऽपि उपयुक्तः
Show Answer/Hide
146. देशे सर्वविधा उन्नतिः कथं भवितुं शक्यते?
(A) मैत्रीदृष्ट्या
(B) आर्थिकदृष्ट्या
(C) उच्च-नीचत्वभावनां विहाय
(D) एकाधिकविकल्पा उपयुक्ताः
(E) न कोऽपि उपयुक्तः
Show Answer/Hide
147. पुण्यं प्राप्तुं शक्यते
(A) विश्वबंधुभावनया
(B) विश्वमैत्रीभावनया
(C) परोपकारेण
(D) एकाधिकविकल्पा उपयुक्ताः
(E) न कोऽपि उपयुक्तः
Show Answer/Hide
148. पापं कथम् उत्पद्यते ?
(A) परोपकारेण
(B) अहिंसया
(C) परपीडनेन
(D) एकाधिकविकल्पा उपयुक्ताः
(E) न कोऽपि उपयुक्तः
Show Answer/Hide
149. ‘बुद्धचरितम्’ कस्यां भाषायां प्रणिबद्धम् अस्ति ?
(A) वैदिकीभाषायाम्
(B) प्राकृतभाषायाम्
(C) संस्कृतभाषायाम्
(D) एकाधिकविकल्पा उपयुक्ताः
(E) न कोऽपि उपयुक्तः
Show Answer/Hide
150. पृथिवीपुत्राणां कृते वयं सर्वे किं किं कामयामहे?
(A) सुखिनो भवन्तु
(B) परोपकारिणो भवन्तु
(C) नीरोगा बलिनो भवन्तु
(D) एकाधिकविकल्पा उपयुक्ताः
(E) न कोऽपि उपयुक्तः
Show Answer/Hide
Read Also : |
---|